TBD.
पुत्र पति इत्येतस्योरुत्तरपदयोस् तत्पुरुषे समासे ष्यङः संप्रसारणं भवति। यणः स्थाने इग् भवति इत्यर्थः। कारीषगन्धीपुत्रः। कारिषगन्धीपति। कौमुदगन्धीपुत्रः। कौमुदगन्धीपतिः। करीषस्य इव गन्धो ऽस्य, कुमुदस्य इव गन्धो ऽस्य इति बहुव्रीहिः, तत्र उपमानाच् च 5-4-137 इति गन्धस्य इदन्तादेशः। करीषगन्धेः अपत्यम् इत्यण्, तदन्तात् स्त्रियाम् अणिञोरन्नर्षयोर् गुरूपत्तमयोः ष्यङ् गोत्रे 4-1-78 इति ष्यङ्, ततश्च अपि विहिते षष्ठीसमासः, सम्प्रसारणस्य 6-3-139 इति दीर्घत्वम्। ष्यङः इति इम्? भ्यापुत्रः। क्षत्रियापुत्रः। पुत्रपत्योः इति किम्? कारीषगन्ध्याकुलम्। कौमुदगन्ध्याकुलम्। तत्पुरुषे इति किम्? कारीषगन्ध्या पतिरस्य ग्रामस्य कारीषगन्ध्यापतिः अयं ग्रामः। ष्यङः इति स्त्रीप्रत्ययग्रहणं न स्त्रीप्रत्यये चानुपसर्जने इति प्रत्ययग्रहणपरिभाषया यस्मात् स विहितः तदादेः इत्येष नियमो न अस्ति, तेन परमकारीषगन्ध्यायाः पुत्रः परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिः इत्यपि भवति। उपसर्जने तु ष्यङि न भवति। अतिक्रान्ता कारीषगन्ध्याम् अतिकारीषगन्ध्या, तस्य पुत्रः अतिकारीषगन्ध्यापुत्रः। अतिकारीषगन्ध्यापति। पुत्रपत्योः केवलयोः उत्तरपदयोः इदं सम्प्रसारणं, तदादौ तदन्ते च न भवति, कारीषगन्ध्यापुत्रकुलम्, कारिषगन्ध्यापरमपुत्रः इति। ष्यङन्ते च यद्यप्यन्ये यणः सन्ति, तथापि ष्यङः एव सम्प्रसारणं, निर्दिश्यमानस्य आदेशा भवन्ति इति। सम्प्रसारणम् इति चाधिक्रियते विभाषा परेः 6-1-44 इति यावत्।
TBD.
–
989 संप्रसारणस्य दीर्घ इति। `ढ्रलोपे' इत्यतस्तदनुवृत्तेरिति भावः। उत्तरपदे इति। `अलुगुत्तरपदे' इति तदधिकारादिति भावः। कौमुदगन्ध्यायाः पुत्र इति। विग्रहवाक्यमिदम्। कुमुदगन्ध इव गन्धो यस्य स कुमुदगन्धिः। `सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहिः, कुमुदगन्धशब्दे पूर्वखण्डे उत्तरस्य गन्धशब्दस्य लोपश्च। `उपमानाच्चे'तीत्त्वम्। कुमुदगन्धेरपत्यं स्त्रीत्यर्थे तस्यापत्यमित्यण्। `अणिञोरनार्षयो'रिति तस्य ष्यङादेशः। `यस्येति चे'तीकारलोपः। आदिवृद्धिः। `यङ्श्चाप्। कौमुदगन्ध्याशब्द इति भावः। कौमुदगन्ध्यायाः पुत्र इति। षष्ठीसमासः। सुब्लुकि `कौमुदगन्ध्या-पुत्र' इति स्थिते ष्यङः संप्रसारणेन यकारस्य इकारः। तस्य, तदुत्तराऽऽकारस्य च `संप्रसारणाच्चे'ति पूर्वरूपेण इकारे `संप्रसारणस्ये'ति दीर्घे `कौमुदगन्धीपुत्र' इति रूपमिति भावः। `हलः' इति दीर्घस्य तु नात्र प्रसक्तिः, संप्रसारणात् पूर्वस्य हलः संप्रसारमनिमित्तनिरूपिताङ्गावयवत्वाऽभावात्।कौमुदगन्धीपतिरिति। कौमुदगन्ध्यायाः पतिरिति विग्रहः। पूर्ववत्प्रक्रिया। `इको ह्यस्वोऽङ्यो गालवस्ये'ति पाक्षिकं ह्यस्वम#आशङ्क्याह–व्यवस्थितविभाषया ह्यस्वो नेति। अत्र तु व्याख्यानमेव शरणम्। स्यादेतत्। करी?षं–गोमहिषादिषुरीषम्, करीषगन्ध इव गन्धो यस्य सः करीषगन्धिः, तस्यापत्यं स्त्री–कारीषगन्ध्या, परमा चासौ कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्र इत्यत्रापि ष्यङः संप्रसारणं, तस्य दीर्घश्चेति स्थितिः। अत्र संप्रसारणं दुर्लभम्। ष्यङः करीषगन्धिशब्दादेव विहितत्वेन परमकारीषगन्ध्याशब्दस्य पूर्वपदस्य ष्यङन्तत्वाऽभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य च ग्रहणादित्यत आह–स्त्रीप्रत्यये चेति। ष्यः स्त्रियां विहितत्वात्स स्त्रीप्रत्ययः। ततश्च `स्त्रीप्रत्यये चानुपसर्जने ने'ति परभाषया तदादिनियमाऽभावात्परमकारीषगन्ध्याशब्दोऽपि ष्यङन्त एवेति तत्र संप्रसारणे दीर्घे च `परमकारीषगन्धीपुत्र' इति रूपमिति भावः। इयं परिभाषा `ष्यङः संप्रसारण'मिति प्रकृत सूत्रेभाष्ये पठिता। तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह– उपसर्जने त्विति। कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः, `अत्यादयः'इति समासे, उपसर्जनह्यस्वः। तस्य पुत्रोऽतिकारीषगन्ध्यपुत्रः। अत्र `स्त्रीप्रत्यये तदादिनियमो ने'ति निषेध#ओ न भवति, अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः। ष्यङ् त्वयं स्त्रीप्रत्ययोऽत्र उपसर्जन एव। अतस्तत्र तदादिनियमसत्त्वादतिकारीषगन्ध्यशब्दो नैव ष्यङन्त इति न संप्रसारणमिति भावः।
840 ष्यङः। इह तत्पुरुषपदेन पूर्वपदमुत्तरपदं चाक्षिप्यते, तत्र ष्याङा पूर्वपदस्य विशेषणात्तदन्तं गृह्रत इत्याह–ष्यङन्तस्येति। पुत्रपत्योरुत्तरपदयोरिति। `पुत्रपत्यन्तयो'रिति व्याख्याने तु `कारीषगन्ध्यापरमपुत्रः'इत्यादावतिप्रसङ्गः स्यादिति भावः।
TBD.