Table of Contents

<<1-1-38 —- 1-1-40>>

1-1-39 कृन्मेजन्तः

प्रथमावृत्तिः

TBD.

काशिका

कृद् यो मकारान्तः, एजन्तश्च तदन्तं शब्दरूपम् अव्ययसंज्ञं भवति। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारं भुङ्क्ते। लवणङ्कारं भुङ्क्ते। एजन्तःवक्षे रायः। ता वामेषे रथानाम्। ऋत्वे दक्षाय जीवसे। ज्योक् च सूर्यं दृशे। वक्षे इति वचेः तुमर्थे सेसेनसे 3-4-9 इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम्। एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम्। जीवसे इति जीवेः असे प्रत्यये रूपम्। दृशे इति दृशेः केन्प्रत्ययो निपात्यते दृशे विख्ये च 3-4-11 इति। अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम्। इह मा भूत् आधये, चिकीर्षवे, कुम्भकारेभ्यः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

370 कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्. स्मारं स्मारम्. जीवसे. पिबध्यै..

बालमनोरमा

443 कृन्मेजन्तः। कृत्-मेजन्त इति छेदः। म् च एच्च मेचौ , तौ अन्ते यस्येति बहुव्रीहिः। तदाह–कृद्योमान्त इति। तदन्तमिति। केवलस्य कृतः प्रयोगाऽनर्हत्वात्संज्ञाविधावपि तदन्तविधिरिति भावः। स्मारं स्मारमिति। `आभीक्ष्ण्ये णमुल्चे'ति स्मृधातोर्णमुल्, `अचो ञ्णिती ति वृद्धिः, रपरत्वम्, `नित्यवीप्सयो'रिति द्वित्वं, मान्तकृदन्तत्वादव्ययत्वम्। जीवसे इति। `तुमर्थे सेसेनसे' इत्यादिनाऽसेप्रत्ययः। पिबध्यै इति। `तुमर्थे से' इत्यादिना शध्यैप्रत्ययः। शित्त्वात्सार्वधातुकत्वम्। `पाघ्राध्मे'ति पिबादेश इति भावः। शप्तु न, कत्र्रर्थे सार्वधातुके तद्विधेः, `अव्ययकृतो भावे' इति सिद्धान्तादित्याहुः।

तत्त्वबोधिनी

400 कृन्मेजन्तः। अत्र `मेजन्त'इत्येतच्छ\उfffद्तत्वात्कृत एव विशेषणं नतु कृदन्तस्याऽश्रुतस्य। अन्यथा `प्रतामौ' `प्रतामः'। लवमाचष्टे णौ क्विपि णिलोपे वस्योठि वद्धौ च `लौः'—अत्रापि प्रसज्यतेति भावः। भवति ह्रेतत्प्रत्ययलक्षणेन कृदन्तम्, एजन्तं च श्रूयते इति, तदाह–कृद्यो मान्त एजन्त इति। स्मारं स्मारमिति। स्मरतेः`आभीक्ष्ण्ये णमुल्'। वृद्धिः। रपरत्वम्। `नित्यवूप्सयोः'इति द्वित्वम्। जीवसे इति। `तुमर्थे सेसेन्'इत्यसेप्रत्ययः। पिबध्यै इति। `तुमर्थे' इत्यनेनैव `शध्यै'प्रत्ययः। `पाघ्रे'ति पिबादेशः। `येन विधिस्तदन्तस्ये'त्यनेनैव सिद्धे सूत्रेऽन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थं, तेनेह न—आधये। चिकीर्षवे। लक्षणप्रतिपदोक्त–संनिपातपरिभाषाभ्यां सिद्धे तयोरनित्यत्वज्ञापनायेदमिति मनोरमायां स्थितम्। एतच्च `अव्ययादाप्सुप'इत्यत्राव्ययात्परस्य सुपो लु'गिति यथाश्रुतव्याख्यानमभिप्रेत्योक्तम्। `अव्ययाद्विहिकस्ये'ति व्याख्याने त्वाधये इत्यादौ अव्ययसंज्ञामनिष्टान्तरमूह्रम्।

Satishji's सूत्र-सूचिः

272) कृन्मेजन्तः 1-1-39

वृत्तिः कृद्यो मान्‍त एजन्‍तश्‍च तदन्‍तमव्‍ययं स्‍यात् । A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

Among the कृत्-affixes only णमुँल्, कमुँल्, खमुँञ्, तुमुँन् end in a मकारः। Out of these the most common is the तुमुँन्-प्रत्यय:।

The कृत्-प्रत्ययाः that end in एच् are used only in the वेद:।

Since these are कृदन्ताः, they get the प्रातिपदिकम् सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च, and the सुँप् affixes take लुक् elision by 2-4-82 अव्ययादाप्सुपः ।

उदाहरणम् -
i) तुमुँन् – पठितुम् (तुमुँन् affix by 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌)।

गीतासु उदाहरणम् – श्लोकः bg11-3

द्रष्टुम्। (तुमुँन् affix by 3-3-158 समानकर्तृकेषु तुमुन्)

गीतासु उदाहरणम् – श्लोकः bg11-8

द्रष्टुम्। (तुमुँन् affix by 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्)