Table of Contents

<<3-4-64 —- 3-4-66>>

3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्

प्रथमावृत्तिः

TBD.

काशिका

शकाऽदिषु उपपदेषु अस्त्यर्थेषु वा धातुमात्रात् तुमुन् प्रत्ययो भवति। अत्रियार्थोपपदार्थो ऽयम् आरम्भः। शक्नोति भोक्तुम्। धृष्णोति भोक्तुम्। जानाति भोक्तुम्। ग्लायति भोक्तुम्। घटते भोक्तुम्। आरभते भोक्तुम्। लभते भोक्तुम्। प्रक्रमते भोक्तुम्। सहते भोक्तुम्। अर्हति भोक्तुम्। अस्त्यर्थेषु खल्वपि अस्ति भोक्तुम्। भवति भोक्तुम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1510 शकधृष। अयमप्यक्रियार्थोपपदार्थ आरम्भः। `भोक्तुं शक्नोति जानाती'त्यत्र हि भुज्यर्थो विषयतया संबध्यते, नैपुण्यं च गम्यते। ग्लायति भोक्तुमित्यत्र भोजनविषयिण्यशक्तिर्गम्यते। `भोक्तुं घटते' इत्यत्र तु भोक्तुमर्हतीति योग्यता। `आरभते भोक्तु'मित्यत्र भोक्तुं प्रक्रमते = उत्सहते इति भुजेराद्यावस्था। `लभते इत्यत्राऽप्रत्याख्यानम्। `अस्ति भोक्तु'मित्यादौ तु संभवमात्रम्।

Satishji's सूत्र-सूचिः

TBD.