TBD.
क्त्वा, तोसुन्, कसुन्, इत्येवम् अन्तं शब्दरूपम् अव्ययसंज्ञं भवति। कृत्वा। हृत्वा। तोसुन् व्युष्टायां पुरा सूर्यस्योदेतो राधेयः। पुरा वत्सानामपाकर्त्तोः। भावलक्षणे स्थाइण्कृञ्वदि 3-4-16 इति इणः, कृञश्च तोसुन् प्रत्ययः। कसुन् सृपितृदोः कसुन् 3-4-17। पुरा क्रूरस्य विसृपो विरप्शिन्। पुरा जत्रुभ्य आतृदः।
TBD.
371 एतदन्तमव्ययम्. कृत्वा. उदेतोः. विसृपः..
444 क्त्वातोसुन्। कृत्वेति। `समानकर्तृकयोः' इति क्त्वा। उदेतोरिति। उत्पूर्वादिणो `भावलक्षणे' इत्यादिना तोसुन्। विसृप इति। `सुपितृदोः कसुन्'।
401 क्त्वातोसुन्कसुनः। कृत्वेति। `समानकर्तृकयोः'इत्यादिना क्त्वा। उदेतोरिति। उत्पूर्वादिणो `भावलक्षणे स्थे'णित्यादिना `तोसुन्'। विसृप इति। `सृपितृदोः कसुन्'।
273) क्त्वातोसुन्कसुनः 1-1-40
वृत्तिः क्त्वा तोसुन् कसुन् इत्येवमन्तं शब्दरूपमव्ययसंज्ञं भवति। The words ending in the affixes क्त्वा, तोसुन् and कसुन्, are also designated as indeclinables.
The तोसुँन्-प्रत्यय: and कसुँन्-प्रत्यय: is used only in the वेद:।
उदाहरणानि for क्त्वा-प्रत्यय: – श्रुत्वा, ज्ञात्वा, भूत्वा।
क्त्वा-प्रत्यय: is prescribed by 3-4-21 समानकर्तृकयोः पूर्वकाले।
गीतासु उदाहरणम् – श्लोकः bg15-6
यद्गत्वा न निवर्तन्ते।