Table of Contents

<<3-3-157 —- 3-3-159>>

3-3-158 समानकर्तृकेषु तुमुन्

प्रथमावृत्तिः

TBD.

काशिका

इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति। तुमुन् प्रकृत्यपेक्षम् एव समानकर्तृट्वम्। इच्छति भोक्तुम्। कामयते भोक्तुम्। विष्टि भोक्तुम्। वाञ्छति बोक्तुम्। समानकर्तृकेषु इति किम्? देवदत्तम् भुञ्जानम् इच्छति यज्ञदत्तः। इह कस्मान् न भवति, इच्छन् करोति? अनभिधानात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1509 समानकर्तृकेषु। अक्रियार्थेति। `भोक्तुमिच्छती'त्यत्र भोजनविषयिणीच्छेति प्रतीयते न भोजनार्थेच्छेति। अतः पूर्वेणाऽप्राप्तिरिति भावः। सूत्रस्थसमानशब्द एकतावचन इत्याह– एककर्तृकेष्विति। एकेति किम् ?। पुत्रस्य पठनमिच्छति। पुत्रस्येति कर्तरि षष्ठी। पुत्रकर्तृकं पठनमित्यर्थः। इह सूत्रे `समानकर्तृके'ति पदाभाऽवे `पुत्रस्य पठितुमिच्छती'ति प्रयोगः स्यात्। देवदत्तं भुञ्जानमिच्छतीति

प्रथमावृत्तिः

TBD.

काशिका

। प्रयोगाऽभावेऽपि इच्छन् कर्तुं गच्छतीत्यादौ तु `तुमुन्?ण्वुलौ' इति सूत्रेण स्यादिति। तच्चिन्त्यम्। करोतीत्यर्थ तुमुनः प्राप्तेरेवाऽभावात्, तस्य भावार्थकत्वात्। इह च लटा कर्तृप्रतीतेः। कंचेच्छन्कर्तुमिति प्रयोगो नेष्यते इति रिक्तं वचः, कर्तुमच्छन्निति प्रयोगस्य सकलसंमतत्वात्। पदानुपूव्र्याश्चाहर पात्रं पात्रमाहरेत्यादविव स्वेच्छायत्तत्वात्। विस्तरस्त्विह मनोरमादावनुसन्धेयः। वष्टीति। वश कान्तौ, कान्तिरिच्छेति वशधातुरपीच्छार्थकः।

Satishji's सूत्र-सूचिः

TBD.