Table of Contents

<<3-3-9 —- 3-3-11>>

3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति इत्येव। क्रियार्थायां क्रियायाम् उपपदे धातोर् भविस्यति कले तुमुन्ण्वुलौ प्रत्ययौ भवतः। भोक्तुं व्रजति। भोजको व्रजति। भुजिक्रियार्थः व्रजिरत्रोपपदम्। क्रियायाम् इति किम्? भिक्षिष्य इत्यस्य जटाः। क्रियार्थायाम् इति किम्? धावतस्ते पतिष्यति दण्डः। अथ किमर्थं ण्वुल् विधीयते यावता ण्वुल्तृचौ 3-1-133 इति सामान्येन विहित एव सो ऽस्मिन्नपि विषये भविस्यति? लृटा क्रियार्थौपपदेन बाध्येत। वा ऽसरूपविधिना सो ऽपि भविस्यति? एवं तर्हि एतद् ज्ञाप्यते, क्रियायाम् उपपदे क्रियार्थायां वा ऽसरूपेण तृजादयो न भवन्ति इति। तेन कर्ता व्रजति, विक्षिपो व्रजति इत्येवम् आदि निवर्त्यते।

Ashtadhyayi (C.S.Vasu)

The affixes 'tumun' and 'nvul' are placed after a verbal root, with the force of the future, when the word in construction therewith is another verb, denoting the action performed for the sake of the (future) action.

लघु

852 क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः. मान्तत्वादव्ययत्वम्. कृष्णं द्रष्टुं याति. कृष्णं दर्शको याति..

बालमनोरमा

तत्त्वबोधिनी

1508 तुमुन्ण्वुलौ। क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्याम्। अत्रेदं बोध्यं– तुमुन्ण्वुलोः कृत्त्वाऽविशेषेऽपि `अव्य्यकृतो भावे' इति वचनाद्भावे तुमुन्। ण्वुल्तु कर्तरि। क्रियायामिति सप्तमीनिर्दशात्तद्वाचकस्य यातीत्यादेः `तत्रोपपदं सप्तमीस्थमित्युपपदत्वमिति। कृष्णं द्रष्टुमिति। कृष्णकर्मकं यद्भविष्यद्दर्शनं तत्प्रयोजकं यानमित्यर्थः। कृष्णं दर्शक इति। कृष्णकर्मकभविष्यद्दर्शनकर्तृकर्तृकं दर्शनप्रयोजनकं च यानमित्यर्थः। क्रियायां किम् ?। भिक्षिष्ये इत्यस्य जटाः। इह भिक्षार्था जटाः, ताश्च द्रव्यं, न तु क्रिया, `भिक्षितुं जटा' इति प्रयोगस्तु धारयतीत्यध्याहारेण समर्थनीयः। क्रियार्थायां किम् ?। `धावतस्ते पतिष्यति दण्डः'। अस्त्यत्र धावत इति क्रिया, न त्वसौ दण्डपतनार्था। धावनं तु दण्डपतने हेतुर्भवति न तूद्देश्यमिति दिक्।

Satishji's सूत्र-सूचिः

TBD.