Table of Contents

<<8-3-3 —- 8-3-5>>

8-3-4 अनुनासिकात् परो ऽनुस्वारः

प्रथमावृत्तिः

TBD.

काशिका

अन्यशब्दो ऽत्राध्याहर्तव्यः। तदपेक्षया चेयम् अनुनासिकातिति पञ्चमी। अनुनासिकादन्यो यो वर्णः रोः पूर्वः, यस्य अनुनासिकः न कृतः, ततः परो ऽनुस्वार आगमः भवति। वक्ष्यति - 'समः सुटि' 8-3-5 संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्। 'पुमः खय्यम्परे' 8-3-6 पुंस्कामा। 'नश्छव्यप्रशान्' 8-3-7 भवांश्चरति। केचित् तु परशब्दम् एव अन्यार्थं वर्णयन्ति। अनुनासिकात् परः अनुनासिकातन्यः अनुस्वारो भवति। यस्मिन् पक्षे ऽनुनासिको न अस्ति तत्र अनुस्वारागमो भवति। स तु कस्य आगमो भवति? रोः पूर्वस्य एव इति वर्तते, व्याख्यानादादेशो न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

92 अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः..

बालमनोरमा

136 अनुनासिकात्। `अनुनासिका'दिति ल्यब्लोपे पञ्चमी। `विहाये'ति गम्यम्। पूर्वस्येत्यनुवृत्तं पञ्चम्यन्ततया विपरिणम्यते। पूर्वत्वं च रुत्वकृतरेफापेक्षया। परत्वं च रोर्यः पूर्ववर्णस्तदपेक्षया, तदाह–अनुनासिकं विहायेति। अनुनासिकाऽभावपक्षे इत्यर्थः। आगमत्वं परशब्दलभ्यम्। ततश्च सकारादकारस्य अनुनासिकाऽभावपक्षे अकारात्परोऽनुस्वारागमः। संर्?स्कर्ता। अथ रेफस्य विसर्गविधिं स्मारयति-खरवसानयोरिति।

तत्त्वबोधिनी

110 अनुनासिकात्। ल्यब्लोपे पञ्चमीत्याह–अनुनासिकं विहायेति। अनुनासिकाऽभावपक्षे इत्यर्थः। `पूर्वस्ये'ति प्रकृतस्य तु विभक्तिविपरिणामेन पञ्चम्यन्ततेत्यभिप्रेत्याह-रोः पूर्वस्मादिति। `-संसर्गवद्विप्रयोगस्यापि विशेषावगतिहेतुत्वात् `अवत्सा धेनुरानीयता'मित्यत्रेवसंभावितानुनासिकत्वगुणक एवोपस्थितत्वादाकाङ्क्षितत्वाच्चावधित्वेन सम्बध्यत इत्यभिप्रेत्याह-रोः पूर्वस्मादिति-' इति तु मनोरमायामवतारितं, तत्तु `पूर्वस्ये'त्यनुवर्तनं विभक्तिविपरिणामं चानपेक्ष्य लौकिकन्यायेनैवेष्टं सिध्यतीत्याशयेनोक्तमित्याहुः। अनुस्वारागम इति। आगमत्वं च परशब्देनैव लभ्यते। यथा `पूर्वौ तु ताभ्यामै'जित्यत्र पूर्वशब्देन ऐचोरागमत्वमिति भावः।

Satishji's सूत्र-सूचिः

33) अनुनासिकात् परोऽनुस्वार: 8-3-4

वृत्ति: अनुनासिकादन्यो यो वर्णो रोः पूर्व:, यस्यानुनासिको न कृत:, ततः परोऽनुस्वार आगमो भवति । This rule applies to the section 8-3-5 to 8-3-12. In this section, if the letter preceding “रुँ” is not nasalized then following that letter (which precedes “रुँ”) the अनुस्वार: comes as an augment. Note: As a convention in classical Sanskrit, this rule 8-3-4 (by which the अनुस्वार: comes as an augment) is always preferred to rule 8-3-2 (which would have nasalized the letter preceding “रुँ”)।

गीतासु उदाहरणम् – श्लोकः bg4-11

तान् + तथा = तारु + तथा 8-3-7 (following rule below) = तांरु + तथा = तां: + तथा 8-3-15 = तांस्तथा 8-3-34