Table of Contents

<<8-3-4 —- 8-3-6>>

8-3-5 समः सुटि

प्रथमावृत्तिः

TBD.

काशिका

रुः वर्तते। समः इत्येतस्य रुः भवति सुटि परतः संहितायां विषये। सँस्कर्ता। सँस्कर्तुम्। सँस्कर्तव्यम्। संस्स्कर्ता। संस्स्कर्तुम्। संस्स्कर्तव्यम्। अत्र रोर्विसर्जनीये कृते वा शरि 8-3-66 इति पक्षे विसर्जनीय एव प्राप्नोति। व्यवस्थितविभाषा द्रष्टव्या। तेन अत्र नित्यं सकार एव भवति। अस्मिन्नेव सूत्रे सकारादेशो वा निर्दिश्यते, समः सुटि इति द्विसकारको निर्देशः। समः इति किम्? उपस्कर्ता। सुटि इति किम्? संकृतिः। कश्चिदाह संपुंकानां सो वक्तव्यः। रुविधौ ह्यनिष्टप्रसङ्गः, संस्स्कर्ता, पुंस्स्कामा, कांस्स्कानिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

90 समो रुः सुटि..

बालमनोरमा

134 समः सुटि। `सम' इति षष्ट\उfffद्न्तम्। `मतुवसो रु सम्बुद्धौ' इत्यतः रुग्रहणमनुवर्तते। तदाह-समो रुरिति। `रु' इत्युकार इत्। अलोऽन्त्यस्येति। `उपतिष्ठते' इति शेषः। सम्पूर्वात्करोतेस्तृचि `सम्परिभ्या करोतौ भूषणे' इति सुडागमे सम्-स्कर्तेति स्थिते मस्य रुत्वम्। सर्-स्कर्तेति स्थिते।

तत्त्वबोधिनी

108 समः सुटि। यद्यपि मोऽनुस्वारेण सिद्धं, तथापि अनुनासिकत्रिसकारसिध्द्यर्थमिदम्।

Satishji's सूत्र-सूचिः

TBD.