Table of Contents

<<8-3-2 —- 8-3-4>>

8-3-3 अतो ऽटि नित्यम्

प्रथमावृत्तिः

TBD.

काशिका

अटि परतो रोः पूर्वस्य आकारस्य स्थाने नित्यम् अनुनासिकादेशो भवति। दीर्घादटि समानपादे 8-3-9 इति त्वं वक्ष्यति, ततः पूर्वस्य आतो ऽनुनासिकविकल्पे प्राप्ते नित्यार्थं वचनम्। महाँ असि। महाँ इन्द्रो य ओजसा। देवाँ अच्छा दीद्यत्। केचिदनुस्वारम् अधीयते स च्छान्दसो व्यत्ययो द्रष्टव्यः। आतः इति किम्? ये वा वनस्पतीँरनु। अटि इति किम्? भवांश्चरति। भवांश्लाघयति। नित्यग्रहणं विस्पष्टार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.