TBD.
कानित्येतस्य नकार्स्य रुः भवति आम्रेडिते परतः। कांस्कानामन्त्रयते। कांस्कान् भोजयति। अस्य कस्कदिषु पाठो द्रष्टव्यः। तेन कुप्वोः \उ1ए96क\उ1ए2ब्पौ च 8-3-37 इति न भवति। समः सुटि 8-3-5 इत्यतो वा सकारो ऽनुवर्तते, स एव अत्र विधीयते। पूर्वेषु योगेषु सम्बन्धावृत्त्या गतस्य रोः अत्र अनभिसम्बन्धः। आम्रेडिते इति किम्? कान् कान् पश्यति। एको ऽत्र कुत्सायाम्।
TBD.
100 कान्नकारस्य रुः स्यादाम्रेडिते. कांस्कान्, कांस्कान्..
142 कानाम्रेडिते। `का'निति द्वितीयान्तशब्दस्वरूपपरं षष्ठ\उfffद्न्तम्। षष्ठ्याः सौत्रो लुक्। नलोपाभावोऽपि सौत्र एव। अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते। `रु' इत्यनुवर्तते, तदाह–कान्नकारस्येत्यादिना। संपुंसानामिति। `कान्' इत्यस्य वीप्सायां द्विर्वचने कान्-कान् इति स्थिते प्रथमनकारस्य रुत्वेऽनुनासिकानुस्वारविकल्पः। रेफस्य विसर्गः। तस्य `विसर्जनीयस्य स' इति सत्वं बाधित्वा `कुप्वो'रिति प्राप्तौ `संपुंकाना'मिति सत्वमित्यर्थः। वस्तुतस्तु `संपुंकाना'मिति वार्तिके कानिति निष्फलमित्याह–यद्वेति।
115 कानाम्रेडिते। `कान्कान्' इति वाच्ये आंम्रेडितग्रहणं यत्र दिं?वरुक्तिस्तत्रैव यथा स्यात्। इह मा भूत्–`कान् कान् पश्यसी'ति। अत्र एकः किंशब्दः प्रश्ने। द्वितीयः क्षेपे। कान् कुत्सितान् पश्यसीत्यर्थः। वार्तिके कान्ग्रहणाऽभावेऽपि सत्वं सिध्यतीत्याशयेनाह-यद्वेति। संपुमोस्तु वार्तिकेनैव सत्वम्। कस्कादिषु संस्कर्ता संसकरिष्यति पुंस्कोकिलः पुंस्काम इत्यादिबहूनां पाठे गौरवात्। कस्कादिषु `संपुंका'निति पठित्वा सर्वमपि वार्तिकं त्यक्तुमशक्यं `पुस्कोकिल' इत्यादाविणः परत्वेन विसर्गस्य षत्वप्रसङ्गात्। किं तु कान्ग्रहणमिव सम्?ग्रहणं वार्तिके त्यक्तुं शक्यमित्यम्ये।
TBD.