TBD.
अधिकारो ऽयम्। इत उत्तरं यस्य स्थाने रुः विधीयते ततः पूर्वस्य तु वर्णस्य वा अनुनासिको भवति इत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वम् अनुक्रमिष्यामस् तत्र। वक्ष्यति समः सुटि 8-3-5। सँस्कर्ता। सँस्कर्तुम्। सँस्कर्तव्यम्। अत्रग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम्। अधिकारपरिमाणापरिग्रहे हि सति ढो ढे लोप 8-3-13 इत्यत्र अपि पूर्वस्य अनुनासिकः आशङ्क्येत।
TBD.
91 अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा..
135 अत्रानुनासिक। `मतुवसौ रु सम्बुद्धौ' इति रुत्वविध्यनन्तरमिदं पठितम्। अतोऽत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते। पूर्वत्वं च `रु' इत्यपेक्षया ज्ञेयम्, प्रकृत्वात्। तदाह–अत्रेति। उत्तरसूत्रे अनुनासिकाभावपक्षानुवादादेव विकल्पे सिद्धे `वा'ग्रहणं स्पष्टार्थम्। `परस्य नित्यं रुत्वं, पूर्वस्य तु अनुनासिकविकल्प' इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्पाष्टार्थ एव। इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणं त्यक्तमिति प्रौढमनोरमायां मूलकृतैव उक्तम्। अनेन सूत्रेण `सर्' इत्यत्र सकारादकारोऽनुनासिकः। सँर्?स्कर्तेति स्थिते।
109 अत्रानुनासिकः। अयमधिकारो विधिर्वेति पक्षद्वयम्। आद्ये `अत्राग्रहणमनर्थकम्, अधिकारादेव रूप्रकरणलाभात्। `तु'शब्दस्तु अधिकारपक्षे परस्मात्कार्यिणः पूर्वकार्यस्य विशेषद्योतनार्थः,-`परस्य नित्यं रुत्वं पूर्वस्य तु वाऽनुनासिक' इति। विधिपक्षे `तु'शब्दो व्यर्थो `वा' ग्रहणं स्पष्टार्थम्, `अनुनासिकात्परः' इति ज्ञापकादेव सिद्धेः। नहि विकल्पं विना `अनुनासिकं विहाये'त्यनुनासिकाऽभावपक्षः संभवति। इदमेव ध्वनयितुं वृत्तौ `तुध्वे'तिशब्दावनुक्त्वा `रोः पूर्वस्यानुनासिकः स्या'दित्येवोक्तम्। रोः पूर्वस्येति। उपलक्षणमेतल्लोपस्यापि। अत्र `रुप्रकरणे यो विधिस्ततः पूर्वस्ये'ति निष्कृष्टोऽर्थः। एवं `रोः पूर्वस्मात्पर' इत्यस्यापि `रुप्रकरणे यो विधिस्ततः पूर्वस्मात्पर' इत्यर्थो बोध्यः।
TBD.