Table of Contents

<<8-3-6 —- 8-3-8>>

8-3-7 नश्छव्यप्रशान्

प्रथमावृत्तिः

TBD.

काशिका

अम्परे इति वर्तते। नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुः भवति अम्परे छवि परतः। भवाँश्छादयति, भवांश्छादयति। भवांश्चिनोति, भवांश्चिनोति। भवांष्टीकते, भवांष्टीकते। भवाँस्तरति, भवांस्तरति। छवि इति किम्? भवान् करोति। अप्रशानिति किम्? प्रशान् छाव्यति। प्रशान् चिनोति। अम्परे इत्येव - भवान्त्सरुकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

95 अम्परे छवि नान्तस्य पदस्यरुः; न तु प्रशान्शब्दस्य..

बालमनोरमा

139 नश्छव्यप्रशान्। `न' इति षष्ठ\उfffद्न्तं पदस्येत्यधिकृतस्य विशेषणम्। तदन्तविधिः। `अम्परे' इत्यनुवर्तते, `रु' इति च। तदाह-अम्पर इत्यादिना। `अप्रशा'निति षष्ठ\उfffद्र्थे प्रथमा। तदाह-न त्विति। विसर्ग इति। `शा\उfffद्ङ्ग- छिन्धि' `चक्रिन्-त्रायस्वे'ति स्थिते नकारस्यानेन रुत्वम्। अनुनासिकानुस्वारविकल्पः। ततो विसर्गः, सत्वं, सस्य श्चुत्वेन शकार इत्यर्थः। शार्ङिंश्छिन्धीति। अनुनासिकपक्षे रूपम्। शार्ङिंश्चिन्धीति। अनुस्वारपक्षे रूपम्। `चक्रिंस्त्रायस्वे'त्यनुनासिकपक्षे। अनुस्वारपक्षे तु `चकिं?रस्त्रायस्वे'ति। त्रैङ् पालने। ङित्त्वादात्मनेपदी। `त्राही'ति प्राचीनग्रन्थस्तु प्रामादिकः। त्रायत इति त्राः, त्रा इवाचरती त्रातीत्याचारक्विबन्ताल्लोट् परस्मैपदमिति वा कथञ्चत्समाधेयम्। प्रशानिति। प्रपूर्वाच्छाभ्यतेः क्विप्। `अनुनासिकस्य क्वी'ति दीर्घः। `मो नो धातो'रिति मस्य नः। तस्यासिद्धत्वान्नलोपो न।

तत्त्वबोधिनी

113 प्रशानिति। प्रपूर्वाच्छाम्यतेः क्विप्। `अनुनासिकस्ये'ति दीर्घः। `मो नो धातो'रिति नः। तस्याऽसिद्धत्वान्नलोपो न।

Satishji's सूत्र-सूचिः

34) नश्छव्यप्रशान् 8-3-7

वृत्ति: नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुर्भवत्यम्परे छवि परतः। We will ignore the term “अप्रशान्” because it has very rare application. When the letter “न्” occurs at the end of a पदम् it is substituted by “रुँ” when a letter of the “छव्”-प्रत्याहार: follows as long as the letter of the “छव्”-प्रत्याहार: is followed by letter of the “अम्”-प्रत्याहार:।

गीतासु उदाहरणम् – श्लोकः bg4-11

तान् + तथा = तारु + तथा = तांरु + तथा 8-3-4 = तां: + तथा 8-3-15 = तांस्तथा 8-3-34