Table of Contents

<<8-3-5 —- 8-3-7>>

8-3-6 पुमः खय्यम्परे

प्रथमावृत्तिः

TBD.

काशिका

पुम् इत्येतस्य रुः भवति अम्परे खयि परतः। पुँस्कामा, पुंस्कामा। पुँस्पुत्रः, पुंस्पुत्रः। पुँस्फलम् पुंस्फलम्। पुँश्चली, पुंश्चली। पुंस्कामा इत्यत्र विसर्जनीयस्य कुप्वोः \उ1ए96क\उ1ए2ब्पौ च 8-3-37 इति प्राप्नोति। तस्मादत्र सकार एबादेशो वक्तव्यः। द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात् सः इत्यनुवर्तते। रुत्वम् तु अनुवर्तमानम् अपि नात्राभिसम्बध्यते, सम्बन्धानुवृत्तिस्तस्य इति। खयि इति किम्? पुंदासः। पुंगवः। अम्परे इति किम्? पुंक्षीरम्। पुंक्षुरम्। परग्रहणं किम्? पुमाख्याः। पुमाचारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

94 अम्परे खयि पुमो रुः. पुंस्कोकिलः, पुंस्कोकिलः..

बालमनोरमा

138 पुमः। `रु' ग्रहणमनुवर्तते। अम् परो यस्मादिति विग्रहः। तदाह-अम्परे खयीति। `पुमान्-कोकिल' इति कर्मधारये `सुपो धातुप्रातिपदिकयो'रिति सुब्लुकि `संयोगान्तस्य लोप' इति सकारलोपे पुम्-कोकिल इति स्थिते मस्य रुत्वम्, अनुनासिकानुस्वारविकल्पः, विसर्गः, `संपुंकाना'मिति सः। ननु `विसर्जनीयस्य स' इत्येव सिद्धे `संपुंकाना'मित्यत्र `पु'ग्रहणं व्यर्थमित्यत आह। व्युत्पत्तीत्यादि। ><क><पयोः प्राप्तौ संपुंकानामिति स इत्यन्वयः। `विसर्जनीयस्य स' इति सत्वापवादं कुप्वो

<क><चेति विधिं बाधितुं पुंग्रहणमित्येव वक्तुमुचितमित्यत आह–अप्रत्ययस्येति

षत्वपर्युदासादिति। पूञो डुम्सुन्नित्यौणादिकप्रत्ययस्थमकारस्थानिकत्वाद्विसर्गस्येति भावः। ननूणादयोऽव्युत्पन्नानि प्रातिपदिकानीत्यायनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह–व्युत्पत्तिपक्ष इति। औणादिकशब्देषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह– व्युत्पत्तिपक्ष इति। औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्ति नास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाष्ये स्थितम्। तत्र व्युत्पत्तिपक्षे पुंस्?शब्दस्य डुम्सुन्?प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्याऽप्रत्ययस्येति पर्युदासेनेदुदुपधस्य चाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्तिः। अतस्तत्र कुप्वोरिति विधिं बाधितुं `संपुंकाना'मिति पुंग्रहणमित्यर्थः। अव्युत्पत्तीति। औणादिकशब्देषु प्रकृतिप्रत्ययविभागाऽभावपक्षेऽप्रत्ययस्येति पर्युदासस्यात्राऽप्रसक्तेरिदुदुपधस्येति प्रसक्तं षत्वं बाधितुं `संपुकाना'मिति पुंग्रहणमित्यर्थः। `पुँस्कोकिल' इत्यनुनासिकपक्षे रूपम्। `पुंस्कोकिल' इत्यनुस्वारपक्षे रूपम्। `पुंस्कोकिल' इत्यनुस्वारपक्षे रूपम्। ननु चक्षिङ् व्यक्तायां वाचि'अस्मात् ल्युट्, अनादेशः, चक्षिङः ख्याञ्, पुंसः ख्यानं पुंख्यानमित्यत्रापि पुमो मस्य रुत्वं स्यादित्यत आह– भाष्ये `चक्षिङः ख्शा' ञिति पठित्वा पूर्वत्रासिद्धमित्यसिद्धकाण्डे रषाभ्यामिति णत्वविध्यनन्तरं `ख्शाञश्शस्य यो वे'ति पठितमिति वक्ष्यते। एवंच यत्वस्याऽसिद्धतया खकारस्याऽम्परकत्वाऽभावात् `पुनः खयी'ति रुत्वं नेत्यर्थः। पुंख्यानमिति। `मोऽनुस्वारः' `वा पदान्तस्ये'ति परसवर्णविकल्पः। नच `वर्जने प्रतिषेधः, असनयोश्चे'त्यनादेशे परे प्रतिषेधात्कथमत्र ख्याञादेश इति वाच्यं, ख्शाञादेशप्रयोजनपरवार्तिके पुंख्यानमित्यादिप्रयोगात्तदुपपत्तेः।

तत्त्वबोधिनी

112 पुमःखयि। पुंसः संयोगान्तलोपेऽवशिष्टभागस्येदमनुकरणम्। `अम्पर' इति बहुव्रीहिः। पर्युदासादिति। `इदुदुपधस्ये'ति षत्वविधायके सूत्रे इति भावः। ख्य ञादेशे नेति। `चक्षिङः ख्या'ञित्यत्र ख्?शादिरयमादेशः। असिद्धकाण्डे णत्वानन्तरं `शस्य यो वे'ति स्थितमिति वक्ष्यते। एवंच यत्वस्यासिद्धतयाऽम्परत्वाऽभावात् `पुमः खयी'ति रुत्वं नेत्यर्थः। ख्याञादेशः। ननु आदेश इह दुर्लभः, `वर्जने प्रतिषेधः'-`असनयोश्चे'ति वार्तिकादिति चेत्सत्यम् ; `बहुलं तण्यन्नवधकगात्रविचक्षणाऽजिरातद्यर्थ'मिति वार्तिके बहुलग्रहणात्समाध्रेयम्। विस्तरस्तिवह मनोरमायामनुसन्धेयः। त्रायस्वेति। `त्रैङ् पालने'लोटि शप्यायादेशः।

Satishji's सूत्र-सूचिः

TBD.