Table of Contents

<<8-2-80 —- 8-2-82>>

8-2-81 एत ईद् बहुवचने

प्रथमावृत्तिः

TBD.

काशिका

अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारः, बहुवचने बहूनामर्थानामुक्तौ। अमी। अमीभिः। अमीभ्यः। अमीषाम्। अमीषु। बहुवचने इत्यर्थनिर्देशो ऽयम्, पारिभाषिकस्य हि बहुवचनस्य ग्रहणे अमी इत्यत्र न स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

359 अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ. अमी. पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे. अमुम्. अमू. अमून्. मुत्वे कृते घिसंज्ञायां नाभावः..

बालमनोरमा

तत्र दकारादेकारस्य ऊत्त्वे प्राप्ते एत ईत्। `अदसोऽसेर्दादु दो मः' इत्यस्मात् `अदसो दा'दिति `दो मः' इति चानुवर्तते। तदाह-अदस इत्यादिना। बह्वर्थोक्ताविति। सूत्रे बहुवचनशब्दो यौगिकः। पारिभाषिकस्य ग्रहणे तु अमीभिरित्यादिसिद्धावपि अमी इति न सिध्येत्, `अदे' इत्येकारस्य बहुवचनतया तत्परकत्वाऽभावादिति भावः। ननु औजसादिषु त्यदाद्यत्वे पररूपे च उत्त्वमत्वयोः कृतयोरमुऔ अमुअः इत्यादि स्यात्। मुत्वस्याऽसिद्धत्वान्न `यणित्याशङ्क्य आह–पूर्वत्रेति। विभक्तिकार्यमिति। त्यदाद्यत्वादिकमित्यर्थः। यदि तु पूर्वत्रासिद्ध मित्यत्र `कार्याप्रवृत्तेरावश्यकतया परत्वात्रैपादिके मुत्वे कृते सति उत्वस्थानिनोऽकारस्यापहारे सति, पश्चान्मुत्वेऽभावप्रतियोगित्वारोपेऽपि `देवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनरुन्मज्जन'मिति न्यायेन स्थानिभूतस्य दकारादकारस्याऽभावाद्वृद्धिगुणादि न स्यात्। शास्त्राऽसिद्धत्वपक्षे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्तच्छास्त्र एवाऽभावारोपसम्भवात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्दौ सत्यां `विप्रतिषेधे परं कार्य'मिति न प्रवर्तते। तदुक्तं `पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये'ति। ततश्च स्थानिनोऽकारस्य निवृत्त्यभावाद्वृद्धिगुणादिप्रवृत्तिर्निर्बाधा। एतच्च `पूर्वत्रासिद्ध'मित्यत्र `अचः परस्मिन्' इत्यत्र `षत्वतुकोरसिद्धः' इत्यत्र च भाष्ये स्पष्टम्। प्रपञ्चितं च शब्देन्दुशेखरे शब्दरत्ने च इत्यास्तां तावत्। अमुमिति। अदस् अम् इति स्थिते त्यदाद्यत्वं, पररूपम्, अमि पूर्वः, उत्वमत्वे इति भावः। अमू इति। द्वितीयाद्विवचनं प्रथमाद्विववचनवत्। अमूनिति। शसि, त्यदाद्यत्वं, पररूपं, पूर्वसवर्णदीर्घः, नत्वम्, उत्वमत्वे इति भावः। तृतीयैकवचने अदस् आ इति स्थिते त्यदाद्यत्वं, पररूपम्, उत्वमत्वे च सिद्धवत्कृत्याह–नाभाव इति। `शेषो घ्यसखी'ति घिसंज्ञायाम् `आङो नाऽस्त्रिया'मिति नाभाव इत्यर्थः। ननु `पूर्वत्रासिद्ध'मिति विभक्तिकार्यं प्राक्?पश्चादुत्वमुत्वे इति प्रागुक्तम्। सम्प्रति तु मुत्वे कृते घिसंज्ञायां नाभाव इत्युच्यते। तदिदं पूर्वाऽपरविरुद्धमिति चेत्सत्यम्। यद्विभक्तिकार्यं प्रति मुत्वं निमित्तं न भवति, तदेव विभक्तिकार्यं प्राक् भवति, न त्वन्यदिति विवक्षितम्। इह च नाभावं प्रति मुत्वं निमित्तमिति प्रथमं मुत्वप्रवृत्तेरविरोधः, `न मु ने' इत्यारम्भसामथ्र्यादित्यलम्।

तत्त्वबोधिनी

390 एत ईद्बहुवचने। परिभाषिकस्य बहुवचनस्य ग्रहणे `अमीभि रित्यादिसिद्धावपि जसु `अमी ति न सिध्येत्। न ह्रत्र एकारस्य बहुवचनपरताऽस्र्ति। अतो व्याचष्टे– बह्वार्थोक्ताविति। विभक्तिकार्य प्रागिति। `त्यदादीनामः'इत्यादिसपादसप्ताध्यायीं प्रति `अदसोऽसे'रिति त्रैपादिकसास्त्रस्याऽसिद्धत्वात्, अकृते विभक्तिकार्ये सान्तत्वादुत्वमत्वयोरप्रवृत्तेश्चेति भावः। यदि तु `पूर्वत्रासिद्ध'मित्यत्र कार्याऽसिद्धत्वमिष्येत, तर्हि `अमू'`अमु'मित्यादि न सिद्ध्येत्। त्यदाद्यत्वे कृते पररूपात्प्रागेवोत्वमत्वयोः कृतयोः पश्चान्मुत्वकार्यस्याऽसिद्धतया `अतो गुणे'इति पररूपे `अमौ'इत्यादि रूपसिद्धिपर्सङ्गात्। किंच चर्म वस्ते `चर्मवः', सुष्टु वस्ते `सुवः'। अत्र परत्वात्स्कोरिति सलोपे तस्याऽसिद्धत्वा4द्धल्ह्रादिलोपे उक्तरूपं न सिध्यतीति कार्यऽसिद्धि पक्षो हेय एव। अत्र वदन्ति–`सपादसप्ताध्याय्यां विहितं कार्यं प्रति त्रिपाद्यां विहितमसिद्ध'मिति प्रक्रियाग्रन्थोक्तकार्याऽसिद्धिपक्षे `मनोरथः' `अमु'मित्यादि न सिद्ध्येदिति केचुत्। तन्न। प्रक्तियाग्रन्थोक्तेर्हि कार्य प्रति–कार्ये कर्तव्ये, असिद्धं–पूर्वमेव न जातमित्यर्थः। शस्त्राऽसिद्धत्वेऽप्येवमेव फलितोऽर्थः। तदुक्तं कैयटेन—`यच्छास्त्रमुच्चारितं तस्याऽसिद्धत्वमशक्यं कर्तुमित्यसिद्धवचनादतिदेश आश्रीयते'इति। तथा चातिदशेन कार्याऽप्रवर्तकत्वरूपोऽसिद्धधर्मः शास्त्रेऽतिदिश्यमानः कार्याऽसिद्धत्व एव फलति। एवं च `मनोरथ'इत्यत्र उत्वे कर्यव्ये रेफलोपस्य पूर्वमेवाऽप्रवृत्तौ रोरुत्वस्याऽपर्तीघातान्मनोरथसिद्धिरप्त्यूहा। तथा `अमु'मित्यादिसिद्धिरिति कार्याऽसिद्धपक्षे न काप्यनुपपत्तिरिति।\त्

Satishji's सूत्र-सूचिः

253) एत ईद्बहुवचने 8-2-81

वृत्ति: अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। In the plural, the ईकार: is substituted in place of the एकार: that follows the दकार: of “अदस्” and the दकार: gets substituted by a मकार:।

गीतासु उदाहरणम् – श्लोकः bg11-21

अदस् + जस् 4-1-2 = अद अ + जस् 7-2-102 = अद + जस् 6-1-97 = अद + शी 7-1-17 = अद + ई 1-3-8 = अदे 6-1-87 = अमी 8-2-81