Table of Contents

<<8-2-81 —- 8-2-83>>

8-2-82 वाक्यस्य टेः प्लुत उदात्तः

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम्। वाक्यस्य टेः इति, प्लुतः इति च, उदात्तः इति च, एतत् त्रयम् अप्यधिकृतं वेदितव्यमापादपरिसमाप्तेः। यतिति ऊर्ध्वम् अनुक्रमिष्यामः वाक्यस्य टेः प्लुत उदत्तः इत्येवं तद् वेदितव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

94 अथ प्लुतप्रगृह्रा इति सूत्राकाङ्क्षितप्लुतप्रगृह्रयोर्मध्ये प्रथमोपात्तप्लुतप्रकरणमारभते–वाक्यस्य टेः। `पदस्ये'त्यधिकृतम्। वाक्यस्य टेः पदावयवस्य प्लुतो भवति, सच उदात्तो भवतीत्यर्थः। अत्र पदस्येत्यनुवृत्तिर्नश्छव्यप्रशानित्याद्युत्तरार्था, इहानुवृत्तिविच्छेदे उत्तरत्रानुवृत्तेरसंभवात्। वाक्यस्येत्यभावे पदस्य टेरित्युक्ते यावन्ति वाक्ये पदानि तावतां टेः प्लुतः प्रसज्येत। `वाक्यस्ये'त्युक्ते तु वाक्यस्य टिरन्त्यस्यैव पदस्य संभवतीति न दोषः। टिग्रहणाभावे प्लुतश्रुत्याऽचश्चेति परिभाषयाऽच इत्युपस्थितौ तस्य वाक्यविशेषणत्वात्तदन्तविधावजन्तस्य वाक्यस्येत्यर्थे सत्यलोऽन्त्यपरिभाषया वाक्यान्तस्याचः प्लुत इति पर्यवसानाद्व्रामं गच्छाग्निचि 3 दित्यादिहलन्तवाक्येषु प्लुतो न स्यात्। टिग्रहणे तु तत्सामथ्र्यादेव टिनाऽचो विशेषणाट्टेरवयवस्याचः प्लुत इत्यर्थो लभ्यत इति न दोष इति भाष्ये स्पष्टम्। इत्यधिकृत्येति। `प्लुतविधय आरभ्यन्ते' इति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.