Table of Contents

<<7-1-16 —- 7-1-18>>

7-1-17 जसः शी

प्रथमावृत्तिः

TBD.

काशिका

अकारान्तात् सर्वनाम्नः उत्तरस्य जसः शी इत्ययम् आदेशो भवति। सर्वे। विश्वे। ये। के। ते। दीर्घोच्चारणम् उत्तरार्हम्। त्रपुणी। जतुनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

152 अदन्तात्सर्वनाम्नो जसः शी स्यात्. अनेकाल्त्वात्सर्वादेशः. सर्वे..

बालमनोरमा

युष्मदस्मदोः षष्ठी। षष्ठ\उfffदादिविशिष्योरिति। षष्ठीचतुर्थीद्वितीयाभिः सह तिष्ठत इति षष्ठीचतुर्थीद्वितीयास्थौ, तयोरिति विग्रहः। षष्ठ\उfffदादिविशिष्टयोरिति यावत्। षष्ठीचतुर्थीद्वितीयासु परतस्तिष्टत इति विग्रहस्तु न भवति, `पदस्ये'त्यधिकारविरोधात्। पदस्येत्यनुवृत्तं हि द्विवचनेन विपरिणतं षष्ठीचतुर्थीद्वितीयास्थयोरित्यस्य विशेषणम्। न हि षष्ठ\उfffदादिविभक्तिषु परतः पत्वमस्ति। भ्यामादौ तत्सत्त्वेऽपि तदितरत्र द्वितीयादौ तदभावात्। स्थग्रहणस्य तु प्रयोजनं मूल एव वक्ष्यते।

तत्त्वबोधिनी

179 जसः शी। दीर्घोच्चारणमुत्तरार्थं-वारिणी मधुनी। अनेकाल्त्वादिति। न तु शित्त्वादिति भावः। इत्संज्ञाया एवाभावादिति। `तृ'इत्यत्रोपदेशकाल एव ऋकारस्येत्संज्ञा, शीभावस्य तु सर्वादेशत्वानन्तरं स्थानिवत्त्वेन प्रत्ययत्वे लब्धे `लशक्वतद्धिते' इति प्रत्ययादेःशस्येत्संज्ञेति दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमिति भावः।

Satishji's सूत्र-सूचिः

70) जस: शी 7-1-17

वृत्ति: अदन्तात् सर्वनाम्नो जस: शी स्यात् । Following a pronoun ending in short “अ” the nominative plural ending “जस्” is replaced by “शी”।

गीतासु उदाहरणम् – श्लोकः bg1-9

अन्य + जस् The term “अन्य” is in the list of terms सर्वादीनि in 1-1-27. Hence it gets the सर्वनाम-संज्ञा (it is a pronoun) and जस् is to be replaced by शी.

At this stage the next rule comes into play