Table of Contents

<<7-3-116 —- 7-3-118>>

7-3-117 इदुद्भ्याम्

प्रथमावृत्तिः

इदुद्भ्याम् (5/2)| अनु. – नद्याः, ङेआम्।
हिन्दी – [इदुद्भ्याम्] इकारान्त उकारान्त नदी-संज्ञक से उत्तर ङि के स्थान में ’आम्’ आदेश होता है। पुर्वसूत्र से ही सिध्द था, पुनर्विधान उत्तरसूत्र से औकारादेश परत्व मानकर न हो जाये, इसलिये है।

काशिका

इकारोकाराभ्यां नदीसंज्ञकाभ्याम् उत्तरस्य ङेः आम् आदेशो भवति। कृत्याम्। धेन्वाम्।

Ashtadhyayi (C.S.Vasu)

After the Feminine नदी words ending in इ and उ short, आम् is substituted for the इ of the Loc. Sg.

लघु

224 इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम्. मत्याम्, मतौ. शेषं हरिवत्.. एवं बुद्ध्यादयः..

बालमनोरमा

295 इदुद्भ्याम्। `ङेराम्' इति सूत्रान्नदीग्रहणं ङेरामिति चानुवर्तते। तदाह– नदीसंज्ञकाभ्यामित्यादिना। पक्षे इति। नदीत्वाऽभावपक्षे `अच्च घेः' इत्यत्वसंनियोगशिष्टमौत्वमित्यर्थः। मत्यां मताविति। नदीत्वे तदभावे च रूपम्। मत्यामित्यत्र संनिपातपरिभाषाया अनित्यत्वाद्यण्। एवं श्रुत्यादय इति। आदिना स्मृत्यादिसग्रहः।

तत्त्वबोधिनी

257 औत्त्वे प्राप्ते इति। `ङेरा'मित्यपेक्षया परत्वादिति भावः। प्राचा तु `औ'दिति सूत्रे `इदुभ्द्याम्'`अच्च घे'रिति पूर्वोत्तरसूत्रद्वयबललभ्यार्थमुपादाय `घिनदीसंज्ञावर्जिताभ्या'मिति व्याख्यातम्। `इदुभ्द्या'मिति सूत्रं च नोपन्यस्तमित्यसमज्जसमेतत्।

Satishji's सूत्र-सूचिः

वृत्ति: इदुद्भ्यां नदीसञ्ज्ञकाभ्यां परस्य ङेराम् । The affix “ङि”, following a term having the नदी-सञ्ज्ञा and ending in short “इ” or short “उ”, gets “आम्” as its replacement.

उदाहरणम् –

When नदी-सञ्ज्ञा is taken:

मति + ङि = मति + आम् 1-4-6, 7-3-117 = मति + आ आम्, 7-3-112, 1-1-46 = मति आम् 6-1-90 = मत्याम् 6-1-77

When नदी-सञ्ज्ञा is not taken:

मति + ङि = मत + औ 1-4-7, 7-3-119 = मतौ 6-1-88