TBD.
औतिति वर्तते। घिसंज्ञकादुत्तरस्य ङेः औकारादेशो भवति, तस्य च घेः अकारादेशो भवति। अग्नौ। वायौ कृतौ। धेनौ। पटौ। अतिति तपरकरणं स्त्रियां टापो निव्र्त्त्यर्थम्। औदच्च घेः इति येषाम् एकम् एव इदं सूत्रम्, ते प्रधानशिष्टम् इदुद्भ्याम् औत्त्वं वर्णयन्ति, अन्वाचयशिष्तं घेः अकारम् इति।
TBD.
174 इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च. हरौ. हरिषु. एवं कव्यादयः..
245 `हरि इ' इति स्थिते `घेर्ङिती'ति गुणे प्राप्ते–अच्च घेः। ङेरामि'त्यतो `ङे'रित्यनुवर्तते। `इदुद्भ्या'मिति `औ'दिति च सूत्रमनुवर्तते। तदाह– इदुद्भ्यामिति। अन्तादेश इति। अलोऽन्त्यपरिभाषालभ्यमेतत्। वृद्धिरिति। हर-औ इति स्थिते वृद्धिरेची'ति वृद्धौ, हरौ इति रूपमित्यर्थः। हरिष्विति। `आदेशप्रत्यययो'रिति षत्वम्। अथ सखिशब्दात्सुः। सखि-स् इति स्थिते।
206 अच्च घेः। अत्र`इदुद्भ्याम्', `औ'दिति `डेरा'मित्यतो `ङे'रिति च पदत्रयमनुवर्तत इत्याशयेन व्याचष्टे-इदुद्भ्यां परस्य ङेरौत्स्यादिति। `घेरुत्तरस्ये'ति प्राचां व्याख्यानमिह तु नोक्तम्। सूत्रे `घे'रित्यस्य षष्ठ\उfffद्न्तत्वात्, तन्त्रावृत्त्यादौ च प्रमाणाऽभावात्। `ओ'दिति पूर्वसूत्रे `इदुभ्द्यामुत्तरस्य ङे'रिति क्लृप्तम्बन्धस्य त्यागाऽयोगाच्च। यत्तु व्याचख्युः– `अ'दिति तपरत्वं `बुद्धा' वित्यादावत्त्वे कृते स्त्रियां टाब्मा भूदित्येतदर्थमिति;। तच्चिन्त्यम्। तपरग्रहणाद्धि टापा सह दीर्घो मा भूट्टाप्तु स्यादेव, लक्षणद्वयबाधे मानाऽभाबात्। अतएव `कृन्मजन्त'इति सूत्रे भाष्यादौ संनिपातपरिभाषया `पद्धता'वित्यत्र टान्मेत्युक्तम्, टापा व्यवधाने ह्रानन्तर्यविघातः स्यादिति। तपकरणाट्टबभावे तु संनिपातपरिभाषेपन्यासस्तत्र विरुध्यते। यदपि व्याचख्युः–`औतस्तकारः स्परितार्थ'इति, तदपि न। `स्तीर्णे बर्हिषि समिधाने अग्नौ' इत्यादौ स्वरितत्वाऽदर्शनात्। `न विभक्तौ इति सूत्रे ङे रौतस्तु तकार उच्चारणार्थो नेत्संज्ञक इति स्वयमेव उक्तत्वाच्च। तस्मादुभयत्र तपरकरणमुच्चारणार्थमेवेति मनोरमायां स्थितम्।'
85) अच्च घे: 7-3-119
वृत्ति: इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च । Following a short “इ” or short “उ” ending अङ्गम्, the affix “ङि” is replaced by “औ” and the (ending letter “इ” or “उ” of the) अङ्गम् which has the घि-सञ्ज्ञा is replaced by short “अ”।
गीतासु उदाहरणम् – श्लोकः bg15-12
अग्नि + ङि = अग्न + औ = अग्नौ 6-1-88