Table of Contents

<<7-3-115 —- 7-3-117>>

7-3-116 ङेराम् नद्याम्नीभ्यः

प्रथमावृत्तिः

ङेः (6/1) आम् (1/1), नद्याम्नीभ्यः (5/3)| अनु. – अङ्गस्य।
हिन्दी – [नद्याम्नीभ्यः] नदीसंज्ञक आबन्त तथा नी से उत्तर [ङेः] ङि विभक्ति के स्थान में [आम्] आम् आदेश होता है।

काशिका

नद्यन्ताताबन्ताद् नीत्येतस्मात् चोत्तरस्य ङेः आम् इति अयम् आदेशो भवति। कुमार्याम्। गौर्याम्। ब्रह्मबन्ध्वाम्। धीबन्ध्वाम्। आपः – खट्वायाम्। बहुराजायाम्। कारीषगन्ध्यायाम्। नी – राजन्याम्। सेनान्याम्। ग्रामण्याम्।

Ashtadhyayi (C.S.Vasu)

For the ending इ of the Loc. Sing. there is a substituted आम्, after a stem called नदी 1-4-3, after the Feminine in आ, and after नी (प्रातिपदिकम् which means to lead)।

लघु

बालमनोरमा

268 ङेराम्नद्याम्नीभ्यः। आङ्गत्वात्प्रत्ययग्रहणपरिभाषया च तदन्तविधिमभिप्रेत्य आह–नद्यन्तादित्यादिना। `ङे'रिति सप्तम्येकवचनं, व्याख्यानात्। नन्वामि कृते `ह्यस्वनद्यापः' इति नुटि `यदागमाः' इति न्यायेन नामोऽप्याम्ग्रहणेन ग्रहणात् `आण्नद्या' इति आडागमः स्यादित्याशङ्क्य आह–इह परत्वादिति। न च कृतेऽप्याडागमे नुट् किं न स्यादिति वाच्यं, विप्रतिषेधेन यद्बाधितं तद्बाधितमेवे'ति न्यायादिति भावः। शेषमीप्रत्ययान्तेति। वातप्रमीशब्दस्यापि इवर्णान्तधातुत्वाऽभावेन अमि शसि ङौ च `एरनेकाचः' इति यणः प्रात्प्यभावादिति भावः। लक्षेर्मुट् चे'ति लक्षधातोरीप्रत्यये तस्य मुटि च लक्ष्मीशब्दः। लक्ष्मीमतिक्रान्त इति विग्रहे `अत्यादयः क्रान्ताद्यर्थे' इति समासः। अस्त्रीप्रत्ययान्तत्वान्नोपसर्जनह्यस्वः। अङ्यन्तत्वादिति। औणादिकप्रत्ययान्तत्वादिति बावः। शेषं बहुश्रेयसीवदिति। `प्रथमलिङ्गग्रहणं चे'ति नदीत्वादिति भावः। अथ धातुत्वमापन्ने कुमारीशब्दे पुँल्लिङ्गे श्रेयसीशब्दाद्वैलक्षण्यं दर्शयितुमाह-कुमारीमिच्छन्नित्यादिना। क्यजन्तादिति। कुमारीमात्मन इच्छतीत्यर्थे `सुपः आत्मनः क्य'जिति क्यच्। कचावितौ। `सन#आद्यन्ता' इति क्यजन्तस्य धातुत्वात्तदवयवसुपोऽमः `सुपो धातुप्रातिपदिकयो'रिति लुक्। ततः क्विप् चे'ति कर्तरि क्विप्। कपावितौ। इकार उच्चारणार्थः। `अतो लोपः,'`लोपो व्योः' इति यलोपः। वेरपृक्तस्ये'ति वलोपः। `कुमारी'ति रूपम्। आचारक्विबन्तादिति। कुमारीवाचरतीत्यर्थे `सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः' इति क्विप्। कपावितौ। `वेरपृक्तस्ये'ति वलोपः। `सनाद्यन्ताः' इति धातुत्वात्कर्तरि क्विप्। तस्य च पूर्वत्कृत्स्नलोपः। `कुमारीति'रूपम्। नच क्विबर्थं प्रति कुमारीशब्दस्य उपसर्जनत्वात् `गोस्त्रियोः' इति ह्यस्वः शङ्क्यः, `गोस्त्रियो'रित्यत्र शास्त्रीयोपसर्जनस्यैव ग्रहणात्, कृत्रिमाऽकृत्रिमयोः कृत्रिमस्यैव ग्रहणात्। हल्ङ्याबिति सुलोप इति। नच क्यजन्ते कथं सोर्लोपः, पूर्वस्माद्विधावल्लोपस्यस्थानिवद्भावादिति वाच्यं, `क्वौ लुप्तं न स्थानिव'दिति निषेधादिति भावः।\त्

तत्त्वबोधिनी

230 ङेराम्। `ङे'रिति सप्तम्येकवचनस्य ग्रहणं, `समानाधिकरणे' `स्त्रिया'मित्यादिनिर्देशात्। आटा नुड्वाध्यत इति। आटि कृते तु पुनर्न पर्वर्तते। `सकृद्गतौ'इति न्यायाश्रयणादिति भावः। न सुलोप इति। `लक्षेर्मुट् चे'त्यैणादिक ईप्रत्ययान्तो लक्ष्मीशब्द इत्युपसर्जनह्यस्वोऽपि नेति बोध्यम्। कुमारीति। यद्यपि क्किबर्थं प्रति ङ्यन्तस्योपसर्जनरत्वाद्द्धस्तत्वं प्राप्तं,तथापि `गोस्त्रियोः'इत्यत्र कृत्रिमोपसर्जनत्वं गृह्रते न त्वप्रधानरूपमिति नात्र ह्यस्वः प्रवर्तते। अतएव हरीतक्याः फलानि हरीतक्य इत्यत्रापि ह्यस्वो न भवति। `लुक्तद्धितलुकी'त्यत्र त्वप्रधानरूपमुपसर्जनमेव गृह्रते, नतु कृत्रिमोपसर्जनमसम्भवादिति वक्ष्यामः।

Satishji's सूत्र-सूचिः

122) ङेराम्नद्याम्नीभ्यः 7-3-116

वृत्ति: नद्यन्ताद्, आबन्ताद्, ’नी’शब्दाच्च परस्य ङेराम् । The affix “ङि”, following a base ending in a “नदी” term (ref. 1-4-3) or the feminine affix “आप्” or following the word “नी”, gets “आम्” as the substitute.

उदाहरणम् – रमा + ङि = रमा + आम् 7-3-116 = रमा + या आम् 7-3-113, 1-1-46 = रमायाम् 6-1-101