Table of Contents

<<7-3-108 —- 7-3-110>>

7-3-109 जसि च

प्रथमावृत्तिः

TBD.

काशिका

जसि परतो ह्रस्वान्तस्य अङ्गस्य गुणो भवति। अग्नयः। वायवः। पटवः। धेनवः। बुद्धयः। जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधाया ह्रस्व इत्येतस्मात्। इतः प्रकरणात् प्रभृति छन्दसि वा इति वक्तव्यम्। किं प्रयोजनम्? अम्बे, दर्वि, शतक्रत्वः, पश्वे नृभ्यः, किकिदीव्या। अम्बे, अम्ब। पूर्णा दर्वि, पूर्णा दर्वी। अधा शतक्रत्वः, शतक्रतवः। पश्वे नृभ्यः, पशवे। किकिदीव्या, किकिदीविना।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

168 ह्रस्वान्तस्याङ्गस्य गुणः. हरयः..

बालमनोरमा

239 जसि च। `ह्यस्वस्य गुणः' इत्यनुवर्तते। `अह्गस्ये'त्यधिकृतं ह्यस्वेन विशेष्यते। तेन तदन्तविधिः। तदाह–ह्यस्वान्तस्येत्यादिना। हरय इति। अलोऽन्त्यपरिभाषयाऽन्त्यस्य गुणः। इकारस्य तालुस्थानसाम्यादेकारः। अयादेशः। रुत्वविसर्गाविति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

79) जसि च 7-3-109

वृत्ति: जसि परतो ह्रस्वान्तस्याङ्गस्य गुणो भवति । When the affix “जस्” follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.

गीतासु उदाहरणम् – श्लोकः bg1-1

युयुत्सु + जस् = युयुत्सो + जस् = युयुत्सो + अस् 1-3-7, 1-3-4 = युयुत्सव् + अस् 6-1-78 = युयुत्सव: 8-2-66, 8-3-15