TBD.
सम्बुद्धौ इति वर्तते। ह्रस्वान्तस्य अङ्गस्य गुणो भवति सम्बुद्धौ परतः। हे अग्ने। हे वायो। हे पटो। हे कुमारि, हे ब्रह्मबन्धु इत्येवम् आदीनां ह्रस्वविधानसामर्थ्याद् गुणो न भवति। यदि गुणः इष्टः स्यात्, अम्बार्थानां ह्रस्वः इत्युक्त्वा नदीह्रस्वयोर् गुणः इत्येवं ब्रूयात्।
TBD.
169 सम्बुद्धौ. हे हरे. हरिम्. हरी. हरीन्..
240 हे हरि स् इति स्थिते ह्यस्वस्य गुणः। `सम्बुद्धौ चे'त्यतः सम्बुद्धावित्यनुवर्तते। तदाह–ह्यस्वस्येत्यादिना। अनेन रेफादिकारस्य गुण एकारः। सम्बुद्धिलोप इति। एङः परत्वादिति भावः। नत्वत्र ह्यस्वात्परत्वमस्ति, परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते ह्यस्वात्परत्वाऽभावात्। हरिमिति। अमि पूर्वरूपे रूपम्। हरीनिति। पूर्वसवर्णदीर्घे `तस्माच्छसः' इति नत्वम्।
–
80) ह्रस्वस्य गुण: 7-3-108
वृत्ति: ह्रस्वान्तस्याङ्गस्य गुणो भवति सम्बुद्धौ परतः । When the सम्बुद्धि: affix follows, there is a गुण: substitute for the (ending letter of) of an अङ्गम् ending in a short vowel.
गीतासु उदाहरणम् – श्लोकः bg11-4
प्रभु + सुँ By 2-3-49 the affix सुँ in this example is called सम्बुद्धि: because it is used as an address. Then by the present rule we get प्रभो + सुँ = प्रभो 6-1-69