Table of Contents

<<7-3-109 —- 7-3-111>>

7-3-110 ऋतो ङिसर्वनामस्थानयोः

प्रथमावृत्तिः

TBD.

काशिका

गुणः इति वर्तते। ऋकारान्तस्य अङ्गस्य ङौ परतः सर्वनामस्थाने च गुणो भवति। ङौ मातरि। पितरि। भ्रातरि। कर्तरि। सर्वनामस्थाने कर्तारौ। कर्तारः। मातरौ। पितरौ। भ्रातरौ। तपरकरणं मुखसुखार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

273 ऋतो ङि। `ह्यस्वस्य गुणः' इत्यतो`गुण' इत्यनुवर्तते। `अङ्गस्ये'त्यधिकृतम् `ऋत' इत्यनेन विशेष्यते, ततस्तदन्तविधिस्तदाह–ङाविति।

तत्त्वबोधिनी

237 ऋतो ङि। `कृ?' `तृ?' एतयोरनुकरणे ऋकारान्ते गुणवारणाय तपरकरणमिति बोध्यम्।\र्\नप्तृन्। `तुरिष्ठेमेयस्स्वि'तिवृत्तृ इत्येवसिद्धे तृन्तृचोर्मभेदानोपादानं `क्वचित्सामान्योक्तावपि विशेष एव गृह्रते'इति ज्ञापनार्थन्। तेन `न कापधायाः'इत्यत्र सामान्योक्तावपि वुतद्धितयोरेव को गृह्रते, न कमात्रम्। तेन यदग्रे वक्ष्यति `कोपधप्रतषेधे तद्धितवुग्रहण'मिति, तदुपपन्नं भवतीत्येके। अन्ये त्वाहुः–`अप्तृ'–इत्योव वक्तव्ये `तृन्' `तृ'जिति भेदेनोपादानमर्वणस्तृव्.यावृत्तये। यद्यप्यर्थवत्परिभाषाया तन्निवृत्तिः सिध्यति, तथापि तस्याः परिभाषाया अनित्यत्वज्ञापनाय तयोः पृथगुपादानम्। तेन `अनिनस्मन्ग्रहणान्यर्थवता चानर्थकतेन त तदन्तविधिं पर्योजयन्ती'ति सिद्धमिति। व्युत्पत्तिपक्षे तृन्नन्तत्वात्तृजन्तत्वाद्वा सिद्धे नप्त्रादिग्रहणं व्यर्थमित्यत आह–नियमार्थमिति। औणादिकानामन्यषां संज्ञाशब्दानां मा भूदित्येतदर्थमित्यर्थः। धातृशब्दस्त्वौणादिकः संज्ञाशब्दो न भवतीति तत्र दीर्घो भवत्येव। धातारौ। धातारः। अव्युत्पत्तिपक्षे तु नप्त्रादिग्रहणं विध्यर्थमिति पितृभ्रातृप्रभृतीनां दीर्घशङ्कैव नास्तीति बोध्यम्। पितरः।भ्रातरौ। भ्रातर इत्यादौ दीर्घे नेत्यर्थः। क्रोष्टेति। अनङ्। ह्ल्ङ्यादिलोपात्परत्वादुपधादीर्घः। स च `सर्वनामस्थाने चे'त्यनेन यद्यपि लभ्यते, तथापि परत्वात् `अप्तृ'न्नित्येवं न्याय्यः। कृतेऽप्यनङिएकदेशविकृतस्यानन्यत्वेन तृच्त्वात्। अन्यथा गुणे कृतेऽपि `क्रोष्टारा'वित्यादौ दीर्घे न स्यादिति भावः।

Satishji's सूत्र-सूचिः

109) ऋतो ङि-सर्वनामस्थानयोः 7-3-110

वृत्ति: ऋतोऽङ्गस्य गुणो ङौ सर्वनामस्थाने च । The ending ऋकार: of a अङ्गम् gets a गुणः replacement, when followed by the affix “ङि” (सप्तमी-एकवचनम्) or an affix with the designation सर्वनामस्थानम्।

गीतासु उदाहरणम् – श्लोकः bg14-19

कर्तृ + अम् In place of the ending “ऋ” of “कर्तृ” we have to substitute a गुण: letter (“अ”, “ए” or “ओ” - ref: 1-1-2 अदेङ् गुणः।) Before deciding which is the closest substitute, we have to consider the following rule.