TBD.
आङिति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते। तस्मिन्नाङि परतः, चकारादोसि च, आवन्ताङ्गस्य एकारादेशो भवति। खट्वया। मालया। खट्वयोः मालयोः। बहुराजया। कारीषगन्ध्यया। बहुराजयोः। कारीषगन्ध्ययोः। आपः इति पितो ग्रहणं किम्? कीलालपा ब्रह्मणेन। कीलालपोः ब्रह्मणकुलयोः। ङ्याब्ग्रहणे ऽदीर्घग्रहणम् इति वचनातिह न भवति, अतिखट्वेन ब्राह्मणकुलेन।
TBD.
219 आङि ओसि चाप एकारः. रमया. रमाभ्याम्. रमाभिः..
287 आङि चापः। `ओसि चे'त्यनुवर्तते, `आप' इति षष्ठी,-`अङ्गस्ये'त्यदिकृतं तदन्तविधिः। `बहुवचने झल्ये'दित्यत एदित्यनुवर्तते। तदाह–आङि ओसि चेत्यादिना। `आङिति टासंज्ञां प्राचा'मित्युक्तम्। अलोऽन्त्यस्य एत्वेऽयादेश इत्याह-रमयेति। रमाभिरिति। `अतो भिसः' इति तपरकरणाअदैस्न। रमा-ए इति स्थिते-।
249 आङि। चकारेण `ओसि चे'ति प्रकृतं परामृश्यत इत्याह—-ओसि च पर इति। रमाभिरिति। नन्विह एकादेशस्य पूर्वान्तत्वेन ग्रहणादतो भिस एसित्यैस्प्राप्नोति। नच तपरत्वसामथ्र्यान्नैवमिति वाच्यम्, अकृतैकादेशे `विश्चपाभि'रित्यादौ कृतार्थत्वादिति चेन्मैवम्, अल्विधौ अन्तादिवच्चे त्यस्याऽप्रवृत्तेः।
120) आङि चाऽऽपः 7-3-105
वृत्ति: आङि ओसि चाप एकारः । A nominal stem ending in the feminine affix “आप्” gets एकारः as the substitute when followed by the affix “आङ्” (टा) or “ओस्”। Note: As per 1-1-52, only the ending आकार: of the अङ्गम् is replaced by a एकारः।
उदाहरणम् – रमा + टा = रमे + आ 7-3-105, 1-1-52, 1-3-7 = रमया 6-1-78
रमा + ओस् = रमे + ओस् 7-3-105, 1-1-52 = रमयोस् 6-1-78 = रमयो: 8-2-66, 8-3-15