Table of Contents

<<7-3-103 —- 7-3-105>>

7-3-104 ओसि च

प्रथमावृत्तिः

TBD.

काशिका

ओसि परतो ऽकारान्तस्य अङ्गस्य एकारादेशो भवति। वृक्षयोः स्वम्। प्लक्षयोः स्वम्। वृक्षयोर् निर्धेहि। प्लक्षयोर् निधेहि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

147 अतोऽङ्गस्यैकारः. रामयोः..

बालमनोरमा

205 `राम ओस्' इति स्थिते वृद्धौ प्राप्तायाम्–ओसि चेति। `अतो दीर्घो यञी'त्यतोऽत इत्यनुवर्तते। `अङ्गस्ये'त्यधिकृतम्। `बहुवचने झल्ये'दित्यत `ए'दित्यनुवर्तते। तदाह–ओसि पर इति। अतोऽङ्गस्येति। अदन्ताङ्गस्येत्यर्थः। `रामे ओस्' इति स्थितेऽयादेशं रुत्वविसर्गौ च सिद्धवत्कृत्याह–रामयोरिति। `राम आ'मिति स्थिते सवर्णदीर्घे प्राप्ते–ह्यस्वनद्यापः ह्यस्वश्च नदी च आप्चेति समाहारद्वन्द्वाद्दिग्योगे पञ्चमी। `परस्ये'त्यध्याहार्यम्। `अङ्गस्ये'त्यधिकृतं पञ्चम्या विपरिणम्य ह्यस्वादिभिर्विशेष्यते, अतस्तदन्तविधिः। `आमि सर्वनाम्नः' इत्यत `आमी'त्यनुवर्तते। तच्च `उभयनिर्देशे पञ्चमां निर्देशो बलीयान्' इति न्यायात् `तस्मादित्युत्तरस्ये'ति षठ\उfffद्न्तं सम्पद्यते।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

65) ओसि च 7-3-104

वृत्ति: ओसि परे अतोऽङ्गस्यैकार: । The ending अकार: of a अङ्गम् is replaced by एकार: when followed by the affix “ओस्”।

गीतासु उदाहरणम् – श्लोकः bg18-76

केशवार्जुन + ओस् = केशवार्जुने + ओस् = केशवार्जुनयो: 6-1-78