Table of Contents

<<7-3-105 —- 7-3-107>>

7-3-106 सम्बुद्धौ च

प्रथमावृत्तिः

TBD.

काशिका

आपः इति वर्तते। सम्बुद्धौ च परतः आबन्तस्य अङ्गस्य एत्वं भवति। हे खट्वे। हे बहुराजे। हे कारीषगन्ध्ये।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

218 आप एकारः स्यात्सम्बुद्धौ. एङ्ह्रस्वादिति संबुद्धिलोपः. हे रमे. हे रमे. हे रमाः. रमाम्. रमे. रमाः..

बालमनोरमा

286 संबुद्धौ च। `बहुवचने झल्ये'दित्यत एदिति, `आङि चापः' इत्यत `आप' इति चानुवर्तते। तदाह-आप इत्यादिना। आबन्तस्येत्यर्थः। `अलोऽन्त्यस्य'। हे रमे स् इति स्थिते प्रक्रियां दर्शयति–एङ्ह्यस्वादिति। हल्ङ्यादिलोपस्तु न, परत्वात्प्रतिपदोक्तत्वाच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः, `एङ्ह्यस्वा'दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः। रमामिति। `अमि पूर्वः' इति पूर्वरूपम्। औङः शीभावे आद्गुणं मत्वाह–रमे इति। स्त्रीत्वादिति। शसि रमा- असिति स्थिते पूर्वसवर्णदीर्घे सति कृतपूर्वसवर्णदीर्घात्परत्वेऽपि `तस्माच्छसः' इति नत्वं स्त्रीलिङ्गत्वान्न भवतीत्यर्थः। रमा-आ इति स्थिते।

तत्त्वबोधिनी

248 संबुद्धौ च। `बहुवचने झल्येत्' `आङि चापः'इत्यत `एत्'`आप'इति चानुवर्तते, तदाह—आप स्यादिति। एङ्ह्यस्वादिति। न चात्र हल्ङ्यादिनैध सुलोपोऽस्तु, प्रत्ययलक्षणन्यायेन `सुबुद्धौ चे'त्येत्त्वस्यापि प्रवृत्तिसंभवादिति शङ्कयं, परत्वाकत्प्रतिपदोक्तत्वच्च एत्त्वे कृते हल्ङ्यादिलोपस्याऽप्राप्तेः, स्थानवद्भावादाप्त्वेऽप्याकाररूपत्वाऽभावात्। `आ आ'बित्याकारं पर्श्लिष्य दीर्घग्रहणस्य प्रत्याख्यानात्। `एङ्ह्यस्वा'दिति लोपस्यैव परत्वेन न्याय्यत्वाच्चेति भावः।

Satishji's सूत्र-सूचिः

119) सम्बुद्धौ च 7-3-106

वृत्ति: आप एकारः स्यात् सम्बुद्धौ । “आप्” ending bases get एकारः as the substitute when followed by a सम्बुद्धिः affix.

उदाहरणम् – रमा + सुँ = रमे + स् 7-3-106, 1-3-2 = रमे 6-1-69