Table of Contents

<<7-1-71 —- 7-1-73>>

7-1-72 नपुंसकस्य झलचः

प्रथमावृत्तिः

TBD.

काशिका

नपुंसकस्य झलन्तस्य च सर्वनामस्थाने परतो नुमागमो भवति। उदश्विन्ति। शकृन्ति। यशांसि। पयांसि। अजन्तस्य कुण्डानि। वनानि। त्रपूणि। जतूनि। नपुंसकस्य इति किम्? अग्निचिद् ब्राह्मणः। झलचः इति किम्? बहुपुरि। बहुधुरि। विमलदिवि। चत्वारि। अहानि। उगितो झलन्तस्य नपुंसकस्य परत्वादनेन एव नुम् भवति। श्रेयांसि। भूयांसि। कुर्वन्ति। कृषन्ति ब्राह्मणकुलानि। बहूर्जि प्रतिषेधो वक्तव्यः। बहूर्जि ब्राह्मणकुलानि। अन्त्यात् पूर्वं नुमम् एके इच्छन्ति। बहूर्ञ्जि ब्राह्मणकुलानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

240 झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने..

बालमनोरमा

312 नपुंसकस्य। झल्व अच्चेति समाहारद्वन्द्वः। तेन च अङ्गस्येत्यधिकृतं विशेष्यते। तदन्तविधिः। `इदितो नु'मित्यतो नुमित्यनुवर्तते। तदाह–झलन्तस्येत्यादिना। मित्त्वादन्त्यादचः परः। उपधादीर्घ इति। ज्ञानन् इ इति स्थिते `सर्वनामस्थाने चे'ति दीर्घ इत्यर्थः। पुनस्तद्वदिति। अमौट्शस्सु ज्ञानं ज्ञाने ज्ञानानि इति क्रमेण रूपाणीत्यर्थः। शेषं रामवदिति। शिष्यत इति शेषम्। कर्मणि घञ्। `घञजबन्ताः पुंसी'ति तु प्रायिकमिति भावः।

तत्त्वबोधिनी

274 नपुंसकस्य झलचः। `इदितो नुम् धातो'रित्यतो नुमनुवर्तते। `उगिदचा'मित्यतः `सर्वनामस्थाने'इति च। `अङ्गस्ये'ति चाघधिकृतम्। तथाच झलज्भ्यां नपुंसतमङ्गं विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह—झलन्तस्येत्याद।

Satishji's सूत्र-सूचिः

151) नपुंसकस्य झलचः 7-1-72

वृत्ति: झलन्तस्याजन्तस्य च क्लीबस्य नुँम् स्यात् सर्वनामस्थाने। When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment.

गीतासु उदाहरणम् – श्लोकः 1.33

धन + शस् = धन + शि 7-1-20, 1-1-55 – नुँम् augment is to be added (as shown below) to धन by 7-1-72.