TBD.
आमन्त्रितप्रथमाया यदेकवानं, तत् सम्बुद्धिसंज्ञं भवति। हे पटो। हे देवदत्त। सम्बुद्धिप्रदेशाः एङ्ह्रस्वात् सम्बुद्धेः 6-1-69 इत्येवम् आदयः।
TBD.
132 सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्..
191 हे रामसिति स्थिते, `एङ्ह्यस्वात्संबुद्धेः' इति लोपं विधास्यन् संबुद्धिसंज्ञामाह–एकवचनम्। `प्रातिपदिकार्थलिङ्गे'त्यतः `प्रथमे'त्यनुवृत्तं षष्ठ\उfffदा विपरिणम्यते। `संबोधने चे'त्यतः संबोधने इत्यनुवर्तते। तदाह-संबोधने इति। `सुः संबुद्धि'रित्येव सुवचम्। प्रथमाग्रहणानुवृत्तेः सप्तमीबहुवचनस्य सुपो न ग्रहणम्। नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं शङ्क्यम्। `ह्यस्वस्य गुणः' इति संबुद्धौ परतोऽङ्गस्य गुणविधिबलात्, संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधाच्च। एतेन तदन्तसंज्ञानिवृत्त्यर्थमेकवचनग्रहणमित्यपास्तम्।
159 एकवचनम्। `सुः संबुद्धि'रित्येव सुवचम्। न च सप्तमीबहुवचनेऽतिप्रसङ्गः। `संबोधने प्रथमे'त्यधिकारादेव तदभावादिति नव्याः। अत्र व्याचख्युः–`सुः संबुद्धि'रिति वाच्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्। अन्यथा `सामत्रित'मिति पूर्वसूत्रे तदन्तस्यामत्रितसंज्ञा कृतेति प्रक्रमाऽभेदाय इयमपि संज्ञा तदन्तस्यैव स्यादिति। एङ्ह्यस्वात्संबुद्धेः। यद्यत्र `हल्ङ्याब्भ्य' इत्यतो हलमननुवर्त्त्य `एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्याः संबुद्धेरलोप' इति व्याख्यायेत, हलनुवृत्तावप्यङ्गात्परा या संबुद्धिः तस्या यद्धलिति वा, उभयथापि `हे ज्ञाने'ति न सिध्येत्। लोपात्परत्वात्सोरतोऽभि कृते परत्वान्नित्यत्वाच्च अमि पूर्वत्वे च कृते एकादेशस्य परादिवद्भावे ह्यस्वान्तात्परत्वाभावात्, पूर्वान्तवद्भावे अम एवाभावादुभयत आश्रयणे नान्तादिवदिति निषेधादतो व्याचष्टे-एङन्तादित्वादिना चेदित्यन्तेन।
51) एकवचनं सम्बुद्धि: 2-3-49
वृत्ति: सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात् । The nominative singular affix (सुँ) when used in a vocative form gets the designation सम्बुद्धि:।
गीतासु उदाहरणम् – श्लोकः bg1-1
सञ्जय + सुँ Here the nominative singular affix सुँ is used as an address (vocative) and hence it gets the designation सम्बुद्धि: