Table of Contents

<<7-1-73 —- 7-1-75>>

7-1-74 तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य

प्रथमावृत्तिः

TBD.

काशिका

तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कम् इगन्तं नपुंसकं गालवस्याचार्यस्य मतेन पुंवद् भवति। यथा पुंसि ह्रस्वनुमौ न भवतः, तद्वदत्र अपि न भवतः इत्यर्थः। ग्रामणीः ब्राह्मणः। ग्रामणि ब्राह्मणकुलम्। ग्रामण्या। ब्राह्मणकुलेन, ग्रामणिना ब्राह्मणकुलेन। ग्रामण्ये ब्राह्मणकुलाय, ग्रामणिने ब्राह्मणकुलाय। ग्रामण्यो ब्राह्मणकुलात्, ग्रामणिनो ब्राह्मणकुलात्। ग्रामण्यो ब्राह्मणकुलस्य, ग्रामणिनो ब्राह्मणकुलस्य। ग्रामण्योर् ब्राह्मणकुलयोः, ग्रामणिनोर् ब्राह्मणकुलयोः। ग्रामण्यां ब्राह्मणकुलानाम्, नुमचिर इति पूर्वविप्रतिषेधेन नुट्, ग्रामणीनां ब्राह्मणकुलानाम्। ग्रामण्यां ब्राह्मणकुले, ग्रामणिनि ब्राह्मणकुले। शुचिर्ब्राह्मणः। शुचि ब्राह्मणकुलम्। शुचये ब्राह्मणकुलाय, शुचिने ब्राह्मणकुलाय। शुचेर् ब्राह्मणकुलात्, शुचिनो ब्राह्मणकुलात्। शुचेर् ब्राह्मणकुलस्य, शुचिनो ब्राह्मणकुलस्य। शुच्योर् ब्राह्मणकुलयोः, शुचिनोर् ब्राह्मणकुलयोः। शुचौ ब्राह्मणकुले, शुचिनि ब्राह्मणकुले। तृतीयादिषु इति किम्? ग्रामणिनी ब्राह्मणकुले। शुचिनी ब्राह्मणकुले। भाषितपुंस्कम् इति किम्? त्रपुणे। जतुने। इह कस्मान् न भवति, पीलुर्वृक्षः, पीलु फलम्, पीलुने फलाय इति? समानायामाकृतौ यद् भाषीत्पुंस्कं तुल्ये प्रवृत्तिनिमत्ते तस्य पुंवद्भावः। इह तु वृक्षाकृतिः प्रवृत्तिनिमित्तं पुंसि शब्दस्य, फलाकृतिर्नपुंसके। तदेतदेवं कथं भवति भासितपुंस्कम् इति? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भासितपुंस्कशब्देन उच्यते, उअद्योगादभिधेयम् अपि यद् नपुंसकं तदपि भाषितपुंसकम्। तस्य प्रतिपादकं यच् छब्दरूपं तदपि भाषितपुंस्कम् इति? इकः इत्येव, कीलालपा ब्राह्मणः। कीलालपं बाह्मणकुलम्। कीलालपेन ब्राह्मणकुलेन। अचि इत्येव, ग्रामणिभ्यां ब्राह्मणकुलाभ्याम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

250 प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि. सुधिया, सुधिनेत्यादि.. मधु. मधुनी. मधूनि. हे मधो, हे मधु.. सुलु. सुलुनी. सुलूनि. सुलुनेत्यादि.. धातृ. धातृणी. धातॄणि. हे धातः, हे धातृ. धातॄणाम्.. एवं ज्ञात्रादयः..

बालमनोरमा

319 टादिषु अचिविशेषमाह–तृतीयादिषु। भाषितः पुमान् येन प्रवृत्तिनिमित्तेन तत्- भाषितपुंस्कं, तदस्यास्तीति अर्शाअद्यच्। शब्दस्वरूपं विशेष्यम्। पुंस्त्वे नपुंसकत्वे च एकप्रवृत्तिनिमित्तकमिति यावत्। `इकोऽचि विभक्तौ इत्यत `इकोऽची'ति `नपुंसकस्य झलचः' इत्यतो `नपुंसकस्ये'ति चानुवर्तते। षष्ठी च प्रथमया विपरिणम्यते। तदाह-प्रवृत्तिनिमित्तैक्य इत्यादिना। पुंवद्वेति। गालवग्रहणादिति भावः। अचीति। अजादावित्यर्थः। पुंवत्त्वे ह्यस्वनुमोरभावः फलति। घटपटादिशब्दास्तावद्घटत्वपटत्वादिरूपेणैव तत्तद्व्यकिं?त प्रत्याययन्ति, ननु द्रव्यत्वपृथिबीत्वादिरूपेणेति निर्विवादम्। ततश्च यद्विशेषणं पुरस्कृत्य घटादिशब्दास्तत्तद्व्यक्तिषु प्रयुज्यन्ते तद्विशेषणं प्रवृत्तिनिमित्तमित्युच्यते। वाच्यतावच्छेदकमिति यावत्। एवंच नपुंसकत्वे लिङ्गान्तरे च यस्य एकमेव वाच्यतावच्छेदकं तच्छब्दस्वरूपं भाषितपुंस्कशब्देन विवक्षितम्। अनादिशब्दश्च उत्पत्त्यभावात्मकमनादित्वं पुरस्कृत्य स्त्रीपुंनपुंसकतत्तद्व्यक्तिप्रत्यायक इति भवति तस्य प्रवृत्तिनिमित्तैक्ये भाषुतपुंस्कता। अतस्तस्य टादावचि पुंवत्त्वविकल्प इत्यभिप्रेत्योदाहरति–अनादये अदादिने इति। पुंवत्त्वे नुमोऽप्रवृत्ते `धेर्ङिती'ति गुणः। पुंवत्त्वाऽभावे तु नुमिति भावः। इत्यादीति। अनादेः-अनादिनः। अनाद्योः-अनादिनोः। आमि तु अनादीनामित्येव। शेषं वारिवदिति। प्रथमाद्वितीययोभ्र्यामादौ हलि च वारिवदित्यर्थः। `प्रवृत्तिनिमित्तैक्य' इत्यस्य प्रयोजनं दर्शयितुमाह–पीलुर्वृक्ष इति। यदा वृक्षविशेषः पीलुशब्दवाच्यस्तदा पुंलिङ्गः पीलुशब्दः, यदा पीलुजन्यफलं पीलुशब्दवाच्यं तदा नपुंसकलिङ्गोऽयम्। `फले लुक्' इत्यणो लुक्। अत्र फले वाच्ये पुंवत्त्वं नेत्यर्थः। कुत इत्यत आह-प्रवृत्तिनिमित्तभेदादिति। वृक्षत्वव्याप्यजातिविशेषात्मकं पीलुत्वं वृक्षविशेषे वाच्ये प्रवृत्तिनिमित्तम्। फलविशेषे तु वाच्ये फलत्वव्याप्यजातिविशेषात्मकं पीलुत्वं प्रवृत्तिनिमित्तमिति प्रवृत्तिनिमित्तभेदादित्यर्थः। तदुक्तम्–`पीलुर्वृक्षः फलं पीलु पीलुने नतु पीलवे। वृक्षे निमित्तं पीलुत्वं, तज्जत्वं तत्फले पुनः।' इति।

तत्त्वबोधिनी

281 तृतीयादिषु। यद्यत्र भाषितः पुमान् येन शब्देन स भाषित पुंस्कः शब्द इति विज्ञायेत तदा `पीलुने'इत्यादावतिप्रसङ्गः स्यात्, अतो व्याचष्टे– प्रावृत्तनिमित्तैक्ये इति। अयं भावः–भाषितः पुमान् यस्मिन् अर्थे तद्भाषितपुंस्कं प्रवृत्तिनिमित्तं, तदस्यास्तीति अर्श आदित्वादच्। तेनैकस्मिन् प्रवृत्तिनिमित्ते भाषितपुंस्कं यच्छब्दस्वरूपं तल्लयत इति। `इकोऽचिविभक्ता'वित्यतो `ऽची'त्यनुवर्तनादाह–टादावचीति। इगन्तं किम्?, सोमपेन कुलेन। अचि किम्?, ग्रामणिभ्याङ्कुलाभ्याम्। टादौ किम्?, अनादिनी। अनादीनि। तत्फलमिति। पीलोः फलं पीलु। `फले लु'गिति ओरञो लुक्। प्रवृत्तिनिमित्तभेदादिति। पीलुशब्दस्य हि वृक्षत्वव्याप्यजातिर्वृक्षे प्रवृत्तिनिमित्तं, फले तु फलत्वाव्याप्यजातिर्वृक्षविशेषप्रभवत्वं वा। उभयथापि पुंनपुंसकयोनैकं प्रवृत्तिनिमित्तमिति भावः।

Satishji's सूत्र-सूचिः

163) तृतीयादिषु भाषितपुंसकं पुंवद् गालवस्य 7-1-74

वृत्ति: प्रवृत्तिनिमित्तैक्ये भाषितपुंसकम् इगन्तं क्लीबं पुंवद्वा टादावचि। From the instrumental singular onwards, neuter adjectives ending in an इक् (इ, उ, ऋ, ऌ) letter optionally take the same form as the masculine, when an अजादि-प्रत्यय: (vowel-beginning affix) follows.

उदाहरणम् – Without पुंवद्भावः – धातृ + टा = धातृ + आ 1-3-7 = धातृणा 7-1-73, 8-4-2

In the case of पुंवद्भावः – धातृ + टा = धातृ + आ 1-3-7 = धात्रा 6-1-77