TBD.
आयनेयीनीयियित्येते आदेशाः भवन्ति यथासङ्ख्यं फ ढ ख छ घ इत्येतेषा प्रत्ययादीनाम्। फ इत्येतस्य आयनादेशो भवति। नडाऽदिभ्यः फक् 4-1-99 नाडायनः। चारायणः। ढस्य एयादेशो भवति। स्त्रीभ्यो ढक् 4-1-130 सौपर्णेयः। वैनतेयः। खस्य ईनादेशो भवति कुलात् खः 4-1-139 आढ्यकुलीनः। श्रोत्रियकुलीनः। छस्य ईयादेशो भवति। वृद्धाच् छः 4-2-114 गार्गीयः। वात्सीयः। घ इत्येतस्य इयादेशो भवति। क्षत्राद् धः 4-1-138 क्षत्रियः। प्रत्ययग्रहणं किम्? फक्कति। ढौकते। खनति। छिनत्ति। घूर्णते। आदिग्रहणम् किम्? ऊरुदघ्नम्। जानुदघ्नम्। एते आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति। कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति, तथा च घच्छौ च 4-4-117 इति घचश्चित्करनमर्थवद् भवति। शङ्खः, षण्ढः इत्येवम् आदीनां हि उणादयो बहुलम् इति बहुलवचनादादेशा न भवन्ति। ऋतेरीयङ् 3-1-29 इति वावचनं ज्ञापकं धातुप्रत्ययानामादेशाभावस्य। एजेः खश् 3-2-28, पदरुजविशस्पृशो घञ् 3-3-16 इत्येवम् आदिषु तु इत्संज्ञया भवितव्यम्। तद्धितेषु हि खकारघकारयोरादेशवचनम् अवकाशवदिति इत्संज्ञां बाधितुं न उत्सहते। आयन्नीनोः नकारस्य इत्संज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि सम्भवति।
TBD.
1016 प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः. गर्गस्य युवापत्यं गार्ग्यायणः. दाक्षायणः..
468 आयनेयीनीयियः। आयन्, एय्, ईन्, ईय्, एषां द्वन्द्वात्प्रथमाबहुवचनम्। फ, ढ, ख, छ, घ्-एषां द्वन्द्वात्षष्ठीबहुवचनम्। फादिष्वकार उच्चारणार्थः। यथासङ्ख्यपरिभाषया क्रमेणान्वयः। तदाह–प्रत्ययादिभूतानामित्यादिना। आयनो नस्य इत्त्वेनित्वस्वरोपयोगेऽपि नेत्त्वं, फिनो नित्करणाज्ज्ञापकात्। तत्साहचर्यादीनोऽपि नस्य नेत्त्वम्। एयादिषु च यस्य नेत्त्वं, ङीषः प्राप्त्यभावात्कौरव्यशब्दाट्टाप्, माण्डूबात्तु ङीषिति भावः। यद्यपीह `टाम्ङीपो'रिति पाठः प्रायेण दृश्यते प्रयोजनाऽभावात्। ननु ष्फस्य तद्धितसंज्ञा किमर्थेत्यत आह–तद्धितान्तत्वादिति। ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह– वक्ष्यमाणो ङीषिति। `षिद्गौरादिभ्यश्चे'त्यत्र प्रातिपदिकादित्यनुवृत्तं, ततश्च ष्फान्तस्य प्रातिपदिकत्वाऽभावे ङीष् न स्यादिति भावः। ननु ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वादुक्तार्थानामप्रयोग इति न्यायादत्र कथं ङीषित्यत आह– षित्त्वसामथ्र्यादिति। ष्फेण द्योतितेऽपि स्त्रीत्वे षित्करणसामथ्र्यान्ङीषित्यर्थः। गाग्र्यायणीति। गर्गस्यापत्यं स्त्रीति विग्रहः। गर्गादियञन्ताद्गाग्र्यशब्दात्ष्फः, षकार इत्, फकारस्य आयन्नादेशः, `यस्येति चे'ति यकारादकारस्य लोपः, `हलस्तद्धितस्ये'ति तु न भवति, ईतीत्यनुवृत्तेः। `आपत्यस्य चे'त्यपि न, अनातीति निषेधात्। षित्त्वान्ङीष्। णत्वमिति भावः।
422 आयने। आयनीनोर्नकारस्य नेत्त्वम्, फिनो नित्करणसामथ्र्यात्। फकारदिष्बकार उच्चारणार्थः। तेन ढ्रक्फिञादीनामादेशः सिध्यति। आदिग्रहणं किम्?। ऊरुदन्घं मित्यादौ मा भूत्। प्रत्ययेति किम्?। धीतोरादीनां मा भूत्। फक्कति। ढौकते। छादयति। घूर्णते। घञादिषु तु `चजोः कुघिण्ण्यतो'रित्यादिनिदेर्शेनेत्संज्ञया भाव्यमित्यादेशाभावः। `शमेर्ढः–शण्ढ'इत्येवमादिनामेते आदेशा न भवन्ति, `उणादयो बहुल'मिति बहुलवचनादिति दिक्। क्रमादिति। फ[स्य]–आयन्। ढ[स्य]–एय्। ख[स्य]–ईन्। छ[स्य]–ईय्। घ[स्य]–इय्–इत्यर्थः। स्त्रियामेव ष्फप्रत्ययविधानादत्र ङीष्न स्यादित्याशङ्क्याह–षित्त्वसामथ्र्यादितिष। एकमेव स्त्रीत्वमुभाभ्यामुच्यत इति भावः। सर्वत्रग्रहणमुत्तरसूत्रादिहापकृष्यते बाधकबाधनार्थम्। तेन `आवट\उfffदाच्चे'ति वक्ष्यमाणं परमपि चापं बाधित्वा प्राचां मते आवट\उfffद्शब्दादपि ष्फ एव भवति। चाब्विधेस्तूदीचां मते सावकाशत्वात्। आवट\उfffदायनी। एवं षाद्यञश्चाब्विषयेऽपि प्राचां ष्फ एव, शार्कराक्ष्यायणीति यथा।
TBD.