TBD.
यु वु इत्येतयोः उत्सृष्टविशेषणयोः अनुनासिकयणोः प्रत्यययोर् ग्रहणम्, तयोः स्थाने यथासङ्ख्यम् अन अक इत्येतावादेशौ भवतः। योः अनः, वोः अकः। नन्द्यादिभ्यो ल्युः नन्दनः। रमणः। सायमादिभ्यष्ट्युट्युलौ तुट् च सायनतनः। चिरन्तनः। ण्वुल्तृचौ कारकः। हारकः। वासुदेवार्जुनाभ्यां वुन् 4-3-98 वूसुदेवकः। अर्जुनकः। अनुनासिकयणोः इति किम्? ऊर्णाया युस् 5-2-123 ऊर्णायुः। भुजिमृङ्भ्यां युक्त्युकौ भुज्युः, मृत्युः इति। एवम् आदीनां हि यणो ऽनुनासिकत्वं न प्रतिज्ञायते, प्रतिज्ञानुनासिक्याः पाणिनीयाः। इह युवोरिति निर्देशाद् द्वन्द्वैकवद्भावपक्षे अनित्यम् आगमशासनम् इति नुम् न क्रियते। नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाल् लिङ्गस्य इति न भवति। इतरेतरपक्षे तु छान्दसत्वात् वर्णलोपो द्रष्टव्यः। युवोश्चेद् द्वित्वनिर्देशो द्वित्वे यण् तु प्रसज्यते। अथ चेदेकवद्भावः कथं पुंवद् भवेदयम्। द्वित्वे वैगमिको लोप एकत्वे नुमनित्यता। अशिष्यत्वाद् धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम्।
TBD.
788 यु वु एतयोरनाकौ स्तः. कारकः. कर्ता..
1229 युवोरनाकौ। युश्च वुश्च युवुः। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। तदाह–यु वु एतयोरिति। `अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत्। अनुनासिकयोः किम् ?। ऊर्णायुः। ग्लुचुकायनीनामिति। `प्राचामवृद्धा'दिति ग्लुचुकशब्दादपत्ये फिन्, `इतो मनुष्यजातेः' इति ङीष्, समूहे वुञ्। अकादेशः। आदिवृद्धिः। `यस्येति चे'तीकारलोपः। औक्षकमिति। उक्ष्णां समूह इति विग्रहः। वुञ्। अकादेशः। टिलोपः। आदिवृद्धिः। उष्ट्राणां समूह इति विग्रहः। औष्ट्रकम्। उरभ्राः-मेषाः, तेषां समूहः, ओरभ्रकम्। राजकम्-राजन्यकम्। वात्सकम्। मानुष्यकम्। आजकम्। यलोपे प्राप्ते इति। राजन्यशब्दाद्वुञि अकादेशे `आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः। स्युरिति वक्तव्यमित्यर्थः। यूनो भावो यौवनकम्। मनोज्ञादित्वाद्वुञ्। प्रकृतिभावान्न टिलोपः। `वृद्धिर्यस्याचामादि'रिति वृद्धसंज्ञकम्, भाष्ये वृद्धशब्दस्यैवोदाहरणात्। तदाह– वाद्र्धकमिति। वृद्धानां समूह इति विग्रहः।
1004 युवोः। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। उकारस्तूच्चारणार्थो नेत्संज्ञकः। तेन नन्दनः, कारकः , नन्दना, कारिकेत्यत्रोगिल्लक्षणौ नुम्?ङीपौ न स्तः। अनुनासिकयोरिति किम्?। ऊर्णायुः। प्रकृत्याऽकेइति। इह राजन्यमनुष्यग्रहणं व्यर्थं, रूढिशब्दत्वेन `अपत्यस्य चे'ति यलोपस्य प्राप्त्यभावात्। अतएव `गोत्रोक्षोष्ट्र'इत्यत्र तयोग्र्रहणं सार्थकम्। अन्यथा गोत्रग्रहणेनैव सिद्धे तयोग्र्रहणं न कुर्यादित्याहुः। यूनो भावो योवनिका। मनोज्ञादित्वाठ्ठञ्। वार्धकमिति प्रयोगोऽस्ति, तर्हि मनोज्ञादित्वं यौवनिका। मनोज्ञादित्वाठ्ठञ्।
वृत्तिः ’यु’ ‘वु’ एतयोरनाकौ स्तः । The affixes “यु” and “वु” are substituted respectively by “अन” and “अक”।
Example continued from 3-1-133
कृ + वु
= कृ + अक 7-1-1, 1-1-55
= कर् + अक 7-3-84, 1-1-51
= कारक 7-2-116
“कारक” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
कृ + तृच् 3-1-133
= कृ + तृ 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= कर् + तृ 7-3-84, 1-1-51
“कर्तृ” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46