Table of Contents

<<4-1-138 —- 4-1-140>>

4-1-139 कुलात् खः

प्रथमावृत्तिः

TBD.

काशिका

उत्तरसूत्रे पूर्वप्रतिषेधादिह तदन्तः केवलश्च दृश्यते। कुलशब्दान्तात् प्रातिपदिकात् केवलाच् च अपत्ये खः प्रत्ययो भवति। आढ्यकुलीनः। श्रोत्रियकुलीनः। कुलीनः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1146 कुलात्खः। `अपत्ये' इति शेषः। कुलीन इति। खस्य ईनादेशः। ननु `समासप्रत्ययविधौ' इति तदन्तविधिनिषेधादाढ\उfffद्कुलीन इति कथमित्यत आह– तदन्तादपीति। आढ\उfffद्कुलीन इति। आढ\उfffद्कुलशब्दात्कर्मधारयात्खः। कुले आध्यत्वप्रतीतिरत्र फलम्। कुलीनशब्देन कर्मधारये तु तदप्रतीतिरिति भेदः।

तत्त्वबोधिनी

952 कुलीन इथि। लिङ्गादिति। अन्यथा `ग्रहणवते'ति तदन्तविधिप्रतिषेधादपूर्वपदग्रहणं व्यर्थं स्यादिति भावः। आढ\उfffद्कुलीन इति। आढ\उfffद्श्चासौ कुलीनश्चेति कुलीनविशेषणत्वे कुलस्याढ\उfffद्त्वं न प्रतीयते। किं च ईकार उदात्त इति स्वरेऽपि विशेषोऽस्तीति भावः।

Satishji's सूत्र-सूचिः

TBD.