Table of Contents

<<4-1-129 —- 4-1-131>>

4-1-130 आरगुदीचाम्

प्रथमावृत्तिः

TBD.

काशिका

गोधायाः अपत्ये उदीचाम् आचार्याणां मतेन आरक् प्रत्ययो भवति। गौधारः। आचार्यग्रहणं पूजार्थं, वचनसाम्र्थ्यादेव पूर्वेण समावेशो भवति। आरग्वचनम् अनर्थकं, रका सिद्धत्वात्? ज्ञापकं त्वयम् अन्येभ्यो ऽपि भवति इति। जाडारः। पाण्डारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1120 आरगुदीचां। गोधाया आरग्वा स्यादित्यर्थः। अन्यत इति। आकारान्तादन्यत् अदन्तं, तस्मादपि क्वचिद्विधानार्थमित्यर्थः। जाडार इति। रग्विधौ आकारो न श्रूयेतेति भावः। पण्डो–नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना।

तत्त्वबोधिनी

936 आरदुदीचाम्। वचनादेव ढ्रग्?ढकारकां पर्याये सिद्धे `उदीचां'ग्रहणं पूजार्थम्। `अरक्'इति न सूत्रितं, `यस्येति चे'त्याकारलोपे `गौधरः'इत्यनिष्टप्रसङ्गात्। अन्यत इति। अनाकारान्ताल्लक्ष्यानुरोधेन कुतश्चिदित्यर्थ। पण्डस्येति। पण्डो नपुंसकः, तस्यापत्यं तु कृत्रिमादिरिति।

Satishji's सूत्र-सूचिः

TBD.