Table of Contents

<<3-3-15 —- 3-3-17>>

3-3-16 पदरुजविशस्पृशो घञ्

प्रथमावृत्तिः

TBD.

काशिका

भविष्यति इति निवृतम्। इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः। पदादिभ्यो धातुभ्यो घञ् प्रत्ययो भवति। पद्यते ऽसौ पादः। रुजत्यसौ रोगः। विशत्यसौ वेशः। स्पृश उपताप इति वक्तव्यम्। स्पृशति इति स्पर्शः उपतापः। ततो ऽन्यत्र पचाद्यच् भवति। स्पर्शो देवदत्तः। स्वरे विशेषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1514 पदरुज। पद्यतेऽसाविति। करणस्य कर्तृविवक्षाऽत्र बोध्या। पद्यते गच्छति येनेति फलितोऽर्थः।

Satishji's सूत्र-सूचिः

TBD.