TBD.
एजृ कम्पने इत्यस्मात् ण्यन्तात् कर्मण्युपपदे खश् प्रत्ययो भवति। खकारो मुमथः। शकारः सार्वधातुकसंज्ञार्थः। अङ्गमेजयति अङ्गमेजयः। जनमेजयः। खश्प्रयये वात्शुनीतिलशर्धेष्वजधेट्तुदजहातीनाम् उपसङ्ख्यानम्। वातमजा मृगाः। शुनिन्धयः। तिलन्तुदः। शर्धञ्जहा माषाः।
TBD.
799 ण्यन्तादेजेः खश् स्यात्..
754 #एजेः खश्। एजेरिति ण्यन्तस्य एजृधातोग्र्रहणम्, न त्विका निर्देशः, व्याख्यानादिति भावः। खकारशकारावितौ। कर्मण्युपपदे इत्यपि ज्ञेयम्।
629 एजेः खश्। एजृ कम्पने। एजेरिति ण्यन्तस्य निर्देशो, न तु शुद्धस्येका निर्देशः, खशः शित्करणाल्लिङ्गात्। तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति। न चशुद्धस्य [शब्दस्य] शपि सत्यसति वा विशेषोऽस्ति। न चोत्तरार्थ शित्त्वमिति वाच्यम्, इहाऽर्थवत्त्वे संभवति केवलोत्तरार्थत्वस्याऽन्याय्यत्वात्। तदेतदाह– - ण्यन्तादेजेरिति।
वृत्तिः ण्यन्तादेजेः खश् स्यात् । The affix “खश्” may be used after the causative form of the verbal root √एज् (एजृँ कम्पने, # १. २६७) when in composition with a पदम् which denotes the object (of the action.)
उदाहरणम् – जनमेजयतीति जनमेजय:।
एज् + णिच् 3-1-26
= एज् + इ 1-3-3, 1-3-7, 1-3-9
= एजि । “एजि” gets the धातु-सञ्ज्ञा by 3-1-32.
जन + ङस् (ref: 2-3-65) + एजि + खश् 3-2-28
Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-28 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence “जन + ङस्” (which is the object (कर्म-पदम्) of एजयति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= जन ङस् + एजि + अ 1-3-3, 1-3-8, 1-3-9. The affix खश् has सार्वधातुक-सञ्ज्ञा by 3-4-113. This allows 3-1-68 to apply in the next step.
= जन ङस् + एजि + शप् + अ 3-4-67, 3-1-68
= जन ङस् + एजि + अ + अ 1-3-3, 1-3-8, 1-3-9
= जन ङस् + एजे + अ + अ 7-3-84
= जन ङस् + एजय् + अ + अ 6-1-78
= जन ङस् + एजय 6-1-97
Now we form the compound between “जन ङस्” (which is the उपपदम्) and “एजय” using the सूत्रम् 2-2-19. Note: Here “जन ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “जन ङस्” is placed in the prior position as per 2-2-30
“जन ङस् + एजय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= जन + एजय 2-4-71
Example continued under 6-3-67