Table of Contents

<<3-1-28 —- 3-1-30>>

3-1-29 ऋतेरीयङ्

प्रथमावृत्तिः

TBD.

काशिका

ऋतिः सौत्रो धतुः धृणायां वर्तते, ततः ईयङ् प्रत्ययो भवति। ङकार आत्मनेपदार्थः। ऋतीयते, ऋतीयेते, ऋतियन्ते। ईयङ्वचनं ज्ञापनार्थं, धातुविहितानां प्रत्ययानाम् आयनादयो न भवन्ति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

253 ऋतेरीयङ्। ऋतेर्धातुपाठेऽदर्शनादाह– ऋतिः सौत्र इति। स्वार्थे इति। अर्थविशेषस्याऽनिर्देशादिति भावः। तकारान्तो धातुरयमिका निर्दिष्टो न त्विकारान्तः। इदन्तत्व हि सवर्णदीर्घेणैव सिद्धे ईयङिति ईकारोच्चारणवैयथ्र्यात्। नच इदन्तत्वे सति `एरनेकाचः' इति यण् स्यादिति वाच्यम्, एवमपि `ऋतेर्ङ्यः' इति ङ्यप्रत्यये कृते `अकृत्सार्वधातुकयोर्दीर्घः' इति दीर्घेणैव सिद्धे इयङ्विधिवैयथ्र्यात्। एके इति। अन्ये इत्यर्थः। ऋतीयते इति। ईयङोऽदन्तत्वाच्छपि पररूपम्। ऋतीयांचक्रे इति। `कास्प्रत्यया'दित्याम्। ऋतीयिता। ऋतीयिष्यते। ऋतीयताम्। आर्तीयत। ऋतीयेत। ऋतीयिषीष्ट। आर्तीयिष्ट। आर्तीयिष्यत। आनर्तेति। ऋत् इति तकारान्ताल्लिटि णलि द्वित्वे उरदत्त्वे रपरत्वे हलादिशेषे `अत आदे'रित्यभ्यासस्य दीर्घे `तस्माननुड्?द्विहलः' इति नुट्, `नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्रते' इत्युक्तेरिति भावः। आनृततुः आनृतुः। अनिट्सु अस्याऽपाठात् थलि नित्यमिट्। आनर्तिथ आनृतथुः आनृत। आनर्त। आनृतिव आनृतिम। अर्तिता। अर्तिष्यति। ऋत्यात्। आर्तीदिति। `इट ईटि' इति सिज्लोपः। आडागमः। आर्तिष्यत्। अथ लुगविकरणान् धातून्निरूपयितुमुपक्रमते– अद भक्षणे इति। अनिडयम्।

तत्त्वबोधिनी

224 ऋतेरीयङ्। तान्तोऽयं धातुरिका निर्दिष्टो न त्विकारान्तः, `वञ्चिलुञ्च्यृतश्चे'ति निर्देशात्। केचित्तु ईयङिति दीर्घोच्चारणात्तान्तोऽयमिति ज्ञायते। इदन्तत्वे हि सवर्णदीर्घेणैव सिद्धेरियङमेव कुर्यादित्याहुस्तञ्चन्त्यम्। इदन्तत्वे तु `एरनेकाच' इति यणा सवर्णदीर्घस्य बाधात्। न च ऋतेर्यङ्विधावकृत्सार्वेति दीर्घोपपत्तेरीयङ्विधानं तान्तत्वेलिङ्गं भवत्येवेति वाच्यं, यङ्विधौ `सन्यङो'रिति द्वित्वापत्तेः। कृपायां चेति। `अर्तनं च ऋतीया च ह्यिणीया च घृणार्थकाः' इति, `जुगुप्सा करुणा घृणे'ति चाऽमरः।

Satishji's सूत्र-सूचिः

TBD.