Table of Contents

<<6-1-110 —- 6-1-112>>

6-1-111 ऋत उत्

प्रथमावृत्तिः

TBD.

काशिका

ङसिङसोः इत्येव। ऋकारान्तादुत्तरयोः ङ्सिङसोः अति परतः पूर्वपरयोः उकार एकादेशो भवति। होतुरागच्छति। होतुः स्वम्। द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभते ऽन्यतरव्यपदेशं इति उरण् रपरः 1-1-51 इति रपरत्वम् अत्र कृत्वा रात् सस्य 8-2-24 इति सलोपः कर्तव्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

209 ऋतो ङसिङसोरति उदेकादेशः. रपरः..

बालमनोरमा

277 ङसिङसोस्तृज्वत्त्वे क्रोष्टृ अस् इति स्थिते–ऋत उत्। `एङः पदान्तादति' `ङसि ङसोश्चे'त्यतः-`अती'ति `ङसिङसो'रिति चानुवर्तते। `ङसिङसो'रित्यवयवषष्ठी,- `अती'त्यत्रान्वेति। `अङ्गस्ये'त्यधिकृतम् `ऋत' #इत्यनेन विशेष्यते, ततस्तदन्तविधिसत्दाह–ऋदन्तादित्यादिना। रपरत्वमिति। ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भावः। उदिति तपरकरणं द्विमात्रनिवृत्त्यर्थम्। न च `भाव्यमानोऽसवर्णान्न गृह्णाती'त्येव तन्निवृत्तिः सिध्यतीति वाच्यं, तस्याऽनित्यत्वादिह द्विमात्रप्राप्तौ तन्निवृत्त्यर्थत्वात्। तदनित्यत्वं त्वनेनैव तपरकरणेन ज्ञाप्यते। ततश्च `यवलपरे यवला वेति मकारस्याऽनुनासिका एव भवन्ती'ति `च्छ्वो'रिति सूत्रे कैयटः। यत्तु `तपरत्वं ढ्रलोपे इति दीर्घनिवृत्त्यर्थ'मिति, तन्न। `उरण्रपरः' इति सूत्रे `ऊ,-रपरः' इति भाष्यप्रयोग विराधाता। सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः। नैरृतोरस्यभाव्यन्त सवितू रश्मयो यथा' इति रामायणप्रयोगविरोधाच्चेत्यलम्।

तत्त्वबोधिनी

239 ऋत उत्। ऋकाराकारयोरेकादेशे सति ह्यस्व एव उकारः स्यान्न तु दीर्घ इत्येतदर्थकेन तपरकरणेन भाव्यमानोऽण्क्वचित्सवर्णान्गृह्णातीति ज्ञाप्यते, तेन यवलपरे हकारे मस्य विधीयमाना यवला अनुनासिका भवन्ति।

Satishji's सूत्र-सूचिः

111) ऋत उत् 6-1-111

वृत्ति: ऋतो ङसिँ-ङसोरति उद् एकादेशः । The short उकारः shall be a single substitute in the place of the short ऋकारः and the following short अकारः of the affix “ङसिँ” or “ङस्”।

उदाहरणम् – Example under next rule.