Table of Contents

<<3-1-143 —- 3-1-145>>

3-1-144 गेहे कः

प्रथमावृत्तिः

TBD.

काशिका

ग्रहेर् धातोः कप्रत्ययो भवति गेहे कर्तरि। गृहं वेश्म। तात्स्थ्यात् दाराश्च। गृह्णन्ति इति गृहाः दाराः। गृहाणि वेश्मानि।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

792 गेहे कर्तरि ग्रहेः कः स्यात्. गृहम्..

बालमनोरमा

723 गेहे कः। `विभाषा ग्रहः' इत्यस्यापवादः। गृहमिति। `ग्रहिज्ये'ति संप्रसारणं, पूर्वरूपं च॥ ननु `गृहा दारा' इति कथम्, गेहे कर्तर्येव वाच्ये कप्रत्ययविधानादित्यत आह– तात्स्थ्यादिति। गृहशब्दो गेहस्थे लाक्षणिक इति भावः। गृहा दारा इति। `दारेष्वपि गृहाः' इत्यमरः।

तत्त्वबोधिनी

603 गेहे कः। गेह इति प्त्ययार्थस्य कर्तुर्विशेषणं, नोपपदम्, `गृहपतिना संयुक्ते ञ्यः' इति निर्देशादित्यभिप्रेत्याह— गेहे कर्तरीति। एतत्सूत्रं तु शक्यम कर्तुम्। गृहू ग्रहणे इति भ्वादेरिगुपधलक्षमे कप्रत्यये कृते गृहशब्दस्य सिद्धेः। तात्स्थ्यादिति। भवति हि तात्स्थ्यात्ताच्छब्द्यम्। `मञ्चाः क्रोशन्ती' त्यादौ मञ्चशब्देन पुरुषा अपि व्यपदिश्यन्ते। एवं च गृहशब्दो वेश्मनि मुख्यो, दारेषु त्वौपचारिक इत्यर्थः। अत्रेदमवधेयम्– गृहशब्दोऽयमद्र्धर्चादित्वादुभयलिङ्गः। तत्र नपुंसकलिङ्गोऽभिधेयवचनः पुँल्लिङ्गस्तु बहुवचनान्त एव। `गृहाः पुंसि च भूस्त्र्येवे'त्यमरोक्तेरिति।

Satishji's सूत्र-सूचिः

Video

वृत्तिः गेहे कर्तरि ग्रहेः कः स्यात् । The affix “क” is used following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) when the agent (of the action) denotes a house.

उदाहरणम् – गृह्णाति (धान्यादिकम्) इति गृहम् derived from √ग्रह् (ग्रहँ उपादाने ९.७१).

ग्रह् + क 3-1-144
= ग्रह् + अ 1-3-8, 1-3-9
= ग् ऋ अ ह् + अ 6-1-16
= गृह 6-1-108

“गृह” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46