Table of Contents

<<3-1-142 —- 3-1-144>>

3-1-143 विभाशा ग्रहः

प्रथमावृत्तिः

TBD.

काशिका

विभाषा ग्रहेः धातोः णप्रत्ययो भवति। अचः अपवादः। ग्राहः, ग्रहः। व्यवस्थितविभाषा च इयम्। जलचरे नित्यं ग्राहः। ज्योतिषि नेस्यते, तत्र ग्रहः एव। भवतेश्च इति वक्तव्यम्। भवति इति भावः, भवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

722 विभाषा ग्रहः। व्यवस्थितविभाषेयमिति। इदं `शाच्छो'रिति सूत्रे भाष्ये स्पष्टम्। तेनेति। जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ `ग्राह' इत्येव भवति, ज्योतिषि सू?रयचन्द्रादौ वाच्ये अच्प्रत्यये `ग्रह' इत्येव भवतीत्यर्थः। भवतेश्चेति। `णो वे'ति शेषः। पक्षे अच्। काशिकेति। भाष्ये तु न दृस्यते इति बावः। इयमपि व्यवस्थिविभाषैव। तदाह– भवो देव इति। महादेव इत्यर्थः। अत्र अजेवेति भावः। भावाः पदार्था इति. अत्र ण एवेति भावः। ननु `भवतेश्चे'ति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह– भाष्यमते त्विति। भावयति प्रापयति स्वस्वकार्यमित्यर्थे `भृ प्राप्तौ' इतिचुरादिण्यन्ताद्भावीत्यस्मादच्प्रत्यये णिलोपे भावशब्द इत्यर्थः।

तत्त्वबोधिनी

602 काशिकेति। भाष्ये त्वेतद्वार्तिकं नास्तीति तन्मते भावशब्दोऽसाधुरित्यतत आह– - भाष्यमते त्विति।

Satishji's सूत्र-सूचिः

TBD.