Table of Contents

<<3-1-144 —- 3-1-146>>

3-1-145 शिल्पिनि ष्वुन्

प्रथमावृत्तिः

TBD.

काशिका

धातोः ष्वुन् प्रत्ययो भवति शिल्पिनि कर्तरि। नृतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम्। नर्तकः। खनकः। रजकः। नर्तकी। खनकी। रजकी। रञ्जेरनुनासिकलोपश्च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

724 शिल्पिनि ष्वुन्। नृतिखनिरञ्जिभ्य एवेति। वार्तिकमिदम्। नर्तकीति। षित्त्वान्ङीषिति भावः। `दंशसञ्जस्वञ्जां शपी'ति सूत्रे `रजकरजनरजः सूपसङ्ख्यान'मिति वार्तिकम्। तदर्थतः सङ्गृह्णाति– असि अके अने चेति। रजक इति। रञ्जेः शिल्पिनि ष्वुनि अकादेशे नलोपः। रजकीति। षित्त्वान्ङीष्। `नृतिखनिरञ्जिभ्य एवे'ति परिगणनात् `वेञ् तन्तुसन्ताने ' इत्यस्मात् कृतात्त्वात् `श्याद्व्यधे'ति णप्रत्यये आतो युकि `वाय'इति सिध्यति। भाष्यमते तु नृतिखनिभ्यामेवेति। इदं च `दंशसञ्जस्वञ्जां शपीटति सूत्रे भाष्ये स्पष्टम्। ननु भाष्यमते क्वुनि `रजकी'ति कथमित्यत आह– पुंयोगे तु रजकीति।

तत्त्वबोधिनी

604 शिल्पिनि ष्वुन्। पूर्वेण साहचर्याच्छिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणं न तूपपदमित्याह– तद्वति कर्तरीति। भाष्यमते त्विति। तथा च षष्ठे `रजकरजनरजः सूपसङ्ख्यान'मिति वार्तिकं प्रत्याख्यातुं भाष्यकृतोक्तकम्–`रजकरजनरजःसु कित्त्वात्सिद्धं। कित एवैते औणादिका' इति। तत्र कैयट आह– `रजक इति। `क्वुन् शिल्पी'ति क्वुन्। रजनमिति। `रञ्जेः क्यु'न्निति क्युन्। रज इति। `भूरञ्जिभ्यां कि' दित्यसन् प्रत्यय' इत्#आदि।

Satishji's सूत्र-सूचिः

TBD.