Table of Contents

<<3-1-144 —- 3-1-146>>

3-1-145 शिल्पिनि ष्वुन्

प्रथमावृत्तिः

TBD.

काशिका

धातोः ष्वुन् प्रत्ययो भवति शिल्पिनि कर्तरि। नृतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम्। नर्तकः। खनकः। रजकः। नर्तकी। खनकी। रजकी। रञ्जेरनुनासिकलोपश्च।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

724 शिल्पिनि ष्वुन्। नृतिखनिरञ्जिभ्य एवेति। वार्तिकमिदम्। नर्तकीति। षित्त्वान्ङीषिति भावः। `दंशसञ्जस्वञ्जां शपी'ति सूत्रे `रजकरजनरजः सूपसङ्ख्यान'मिति वार्तिकम्। तदर्थतः सङ्गृह्णाति– असि अके अने चेति। रजक इति। रञ्जेः शिल्पिनि ष्वुनि अकादेशे नलोपः। रजकीति। षित्त्वान्ङीष्। `नृतिखनिरञ्जिभ्य एवे'ति परिगणनात् `वेञ् तन्तुसन्ताने ' इत्यस्मात् कृतात्त्वात् `श्याद्व्यधे'ति णप्रत्यये आतो युकि `वाय'इति सिध्यति। भाष्यमते तु नृतिखनिभ्यामेवेति। इदं च `दंशसञ्जस्वञ्जां शपीटति सूत्रे भाष्ये स्पष्टम्। ननु भाष्यमते क्वुनि `रजकी'ति कथमित्यत आह– पुंयोगे तु रजकीति।

तत्त्वबोधिनी

604 शिल्पिनि ष्वुन्। पूर्वेण साहचर्याच्छिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणं न तूपपदमित्याह– तद्वति कर्तरीति। भाष्यमते त्विति। तथा च षष्ठे `रजकरजनरजः सूपसङ्ख्यान'मिति वार्तिकं प्रत्याख्यातुं भाष्यकृतोक्तकम्–`रजकरजनरजःसु कित्त्वात्सिद्धं। कित एवैते औणादिका' इति। तत्र कैयट आह– `रजक इति। `क्वुन् शिल्पी'ति क्वुन्। रजनमिति। `रञ्जेः क्यु'न्निति क्युन्। रज इति। `भूरञ्जिभ्यां कि' दित्यसन् प्रत्यय' इत्#आदि।

Satishji's सूत्र-सूचिः

TBD.