Table of Contents

<<3-1-132 —- 3-1-134>>

3-1-133 ण्वुल्तृचौ

प्रथमावृत्तिः

TBD.

काशिका

धातोः इति वर्तते। सर्वधातुभ्यो ण्वुल्तृचौ प्रत्ययौ भवतः। कारकः। कर्ता। हारकः। हर्ता। चकारः सामान्यग्रहणाविधातार्थः, तुश् छन्दसि 5-3-59, तुरिष्ठैइमेयस्सु 6-4-154 इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

787 धातोरेतौ स्तः. कर्तरि कृदिति कर्त्रर्थे..

बालमनोरमा

712 अथ कृदन्तप्रकरणं। ण्वुल्तृचौ। अनयोर्वर्तमानकालादन्यत्र न प्रयोग इति भाष्यम्। वोढुमर्ह इति। `अर्हे कृत्यतृचश्चे'त्युक्तेरिति भावः। वोढेति। वहेस्तृच्यनुदात्तत्वादिडभावे ढत्वधत्वष्टुत्वढलोपेषु `सहिवहो'रित्योत्त्वम्। कुटितेत्यत्र लघूपधगुणमाशङ्क्याह– गाङिति। तर्हि ण्वुलि कोटक इत्यत्रापि गुणो न स्यादित्यत आह– अञ्णिदित्युक्तेरिति। विजितेत्यत्र लघूपधगुणमाशङ्क्याह– विज इडिति। `इति ङित्त्व'मिति शेषः। विजितेति। ङित्त्वान्न गुणः अनिट्स्त्विति। तस्यानुदात्तोपदेशत्वादिति भावः। `जनक' इत्यत्रोपधावृद्धिमाशङ्क्य वृद्धिनिषेधं स्मारयत– जनिवध्योश्चेति। वध हिंसायामिति,- धात्वन्तरं भौवादिकं,भ्वादेराकृतिगणत्वात्। नत्वयं हन्तेर्वधादेशः। तथा सति `जनिवध्योश्चे'ति वृद्धिनिषेधसूत्रे वधिग्रहणवैयथ्र्यात्, वधादेशस्याऽदन्ततया अल्लोपस्य स्थानिवत्त्वादेव वृद्ध्यभावसिद्धेः। वधक इति। `जनिवध्योश्चे'ति वृद्धिनिषेधः। रन्धकः जम्भक इत्यत्र इदित्त्वाऽभावादप्राप्ते नुमि तद्विधिं स्मारयति- - रधिजभोरचीति। रधितेत्यत्र `रधिजभो'रिति नुममाशङ्क्याह– नेट\उfffद्लिटीति। रधिता रद्धेति। `रधादिभ्यश्चे'ति वेट्। मस्?ज्? तृ इति स्थिते आह– मस्जिनशोरिति। नुम्विधिरयम्। मङ्क्तेति। मस्?ज्? तृ इति स्थिते `मस्जेरन्त्यात् पूर्वो नुम् वाच्यः' इतिसकारादुपरि जकारात् प्राङ्?नुम्। मस्?न्?ज्? तृ इति स्थिते `स्को'रिति सलोपः, जस्य कुत्वेन गः, तस्य चर्त्वेन कः, अनुस्वारः, परसवर्णेन ङ इति भावः। नंष्टा नशितेति। रधादित्वाद्वेट्। इडभावपक्षे `मस्जिनशो'रिति नुमि, नन्?श्? तृ इति स्थिते `व्रश्चे'ति शस्य षः। नस्याऽनुस्वारः। ष्टुत्वम्। रमेरशब्लिटोरिति नुम्विधिरयम्। लब्धेति। `झषस्तथो'रिति तस्य धः, जश्त्वेन भस्य बः। तीषसहेति। इड्विकल्पोऽयम्। सोढेति। ढत्वधत्वष्टुत्वढलोपाः। `सहिवहो'रित्योत्त्वम्। दरिद्रातेरालोप इति। `दरिद्रातेरालोपो वक्तव्यः' इत्यनेनेति भावः। ण्वुलि नेति। दरिद्रातेर्ण्वुलि आलोपो नेत्यर्थः। `न दरिद्रायके लोपः' इति वार्तिकादिति भावः। दरिद्रायक इति। `अतो यु'गिति युगिति भावः। पादाभ्यां ह्यियते पादहारक इत्यत्र कर्मणि ण्वुलं साधयितुमाह– कृत्यल्युट इत्येवेति। `कृत्यल्युटः' त्येतावतैव पुनर्वचबालद्येष्वर्थेषु ते कृत्यल्युटो विहितास्ततोऽन्यष्वप्यर्थेषु भवन्तीत्यर्थलाभाद्बहुलग्रहणं योगविभागार्थं– `कृत्प्रत्यया येष्वर्थेषु विहितास्ततोऽन्यत्रापि क्वचिद्भवन्ती'ति। एवं च कर्मण्यपि ण्वुल् सिध्यतीत्यर्थः। `कृतो बहुल'मिति वार्तिकं तु एतद्योगविभागसिद्धकथनपरमिति भावः। क्रमेरिति। आत्मनेपदविषयात्क्रमेः परस्य कर्तरि कृतो नेडित्यर्थः। `स्नुक्रमो'रिति सूत्रस्थमिदं वार्तिकम्। प्रक्रन्तेति। `प्रोपाभ्यां समर्थाभ्या'मित्यात्मनेपदविषयोऽयम्। नन्वेवं सति क्रमितेत्यत्र कथमिडित्यत आह- - अनन्यभावे विषयशब्द इति। `वर्तते' इति शेषः। आत्मनेपदाऽविनाभाव इति यावत्। `क्रमेः कर्तर्यात्मनेपदिन' इत्येतावतैव सिद्धे विषयपदोपादानादयमर्थो लभ्यते इति भावः। तथा च नित्यमात्मनेपदिन इति फलितम्। तेनेति। `क्रमिते'त्यत्र क्रमेः `अनुपसर्गाद्वे' त्यात्मनेपदविकल्पविधानान्नित्यमात्मनेपदित्वाऽभावादिण्निषेधो नेत्यर्थः। मतान्तरमाह– तदर्हत्वमेवेति। आत्मनेपदार्हत्वमेवात्मनेपदविषयत्वम्। ततश्च आत्मनेपदपक्षे इण्निषेधे सति कर्न्तेति रूपम्, आत्मनेपदाऽभावपक्षे तु क्रमं इटि क्रमितेति रूपमिति केचिदाहुरित्यर्थः। अत्र पक्षे विषयपदस्य न प्रयोजनमित्यस्वरसः। ननु संजिगमिषितेत्यत्र सनः कथमिट्, कगमेरनिट्सु पाठात्, सनः परस्मैपदपरत्वाऽभावेन `गमेरिट् परस्मैपदेषु' इत्यस्याऽप्रवृत्तेरित्यत आह- - गमेरिडित्यत्रेति। एवमिति। `न वृद्ध्यश्चतुभ्र्यः' इत्यत्रापि परस्मैपदग्रहणमनुवृत्तं तङानयोरभावं लक्षयतीत्यर्थः। विवृत्सितेति। वृतेः सनि रूपम्। `हलन्ताच्चे'ति कित्त्वान्न गुणः। यङन्तादिति। पचिधातोर्यङन्तात् पापच्येत्यस्माण्ण्वुलित्यर्थः। तस्य अकादेशे `यस्य हलः' इति यकारलोपे अतो लोपे पापच् अक इति स्थिते उपधावृद्धिमाशङ्क्याह– स्थानिवत्त्वान्न वृद्धिरिति। यङ्लुगन्तात्त्विति। यङः सङ्घातस्य लुकोऽजादेशत्वाऽभावेन स्थानिवत्त्वाऽसंभवादुपधावृद्धिर्निर्बाधा। `न धातुलोपे' इति निषेधस्तु न, यङ्लुकोऽनैमित्तिकत्वादुपधावृद्धेरिग्लक्षणत्वाऽभावाच्च।

तत्त्वबोधिनी

593 णकारो वृद्ध्यर्थः। लकारो `लिती'ति स्वरार्थः। तृचश्चकारस्तु `तुरिष्ठेमेयस्सु', `तुश्छन्दसि' इत्यादौ सामान्यग्रहणाऽविघातार्थः। `चितः' इत्यन्तोदात्तार्थस्तु न भवति, `आद्युदात्तश्चे'त्येनेनैव सिद्धेः। एवं च `अप्तृन्' इति सूत्रे तृन्तृचो पृथग्ग्रहणं विहाय `अप्तृस्वसृ' इत्येव सुवचमित्येके। अन्ये तु `सामान्यग्रहणेऽपि क्वचिद्विशेषस्यैव ग्रहणं भवती'ति ज्ञापनार्थम् `अप्तृन्नि'ति सूत्रे तृन्?तृचोरुभयोग्र्रहणम्। तेन `कोपधग्रहणे तद्धितवुग्रहण'मित्येतत्सिद्धमित्याहुः। वोढेति। `अर्हे कृत्यतृचश्चे'ति तृच्, ढत्वादयस्तु वोढव्य इत्यत्रेवात्राऽप्यूह्राः। रधितेति। `रधादिभ्यश्चे'ति वेट्। रद्धेति। इह `नेट\उfffद्लिटी'ति निषेधाऽप्रवृत्तावपि `रधी'त्यनेन अच्परत्वाऽभावान्नुम्न। मङ्क्तेति। `टुमस्जो शुद्धौ' अस्मात्तृच्। `मस्जीट ति नुम्न्त्यात्पूर्वः। `स्को'रिति सलोपः। जस्य कुत्वे चत्र्वम्। अनुस्वारपरसवर्णौ। `बहूनां समवाये द्वयोद्र्वयोः संयोगः' इति पक्षे तु नुमागमस्याऽच्परत्वेऽपि `स्को'रिति सलोपो भवत्येवेति ज्ञेयम्। नंष्टेति। रधादित्वादिडभावपक्षे नुम्।लब्धेति। `झषस्तथो'रिति धः भकारस्य जश्त्वम्। `लभेश्चे'ति नुम् तु न भवति, अचीत्यनुवर्तनात्। ण्वुलि ल्युटि च ने'ति वचनात्। योगविभागेनेति। `कृत्यकल्युटो बहुल'मिति सूत्रे `कृतो बहुल'मित्येवाकरे स्थितम्। तथा च योगविभागं विनैव सर्वेष्टसिद्धिरित्याहुः। वाच्चः। प्रक्रन्तेति। `प्रोपाभ्यां समर्थाभ्या'मिति क्रमेरत्मनेपदविषयता। अनन्यभावे विषयशब्द इति। तदन्याऽविषयत्वे सति तद्विषयत्वमनन्यभावः। तथा च विकल्पार्हस्य क्रमेः परस्मैपदात्मनेपदोभयप्राप्तिविषयत्वान्निषेधो नेति भावः। संजिगमिषितेति। संपूर्वाद्गमेः सन्। `सन्यङो'रिति द्वित्वे हलादिः शेषे `सन्यतः' इत्यभ्यासस्येत्वम्। `आद्र्धधातुकस्ये'ति सन इट्, षत्वं, सन्नन्तात्तृच्। पुनरिट्। अल्लोपस्येति। प्राचां तु `न धातुलोपे' इति सूत्रे `इक' इत्यनुवृत्तेर्वृद्धेरनिषेधः— `पापाचक' इत्युक्तं, तन्न, यङन्ते अल्लोपस्य स्थानिवत्त्वेन वृद्धिः प्राप्त्यभावात्। ननु यङ्लुगन्तपापाचकरूपाभिप्रायेण तथोक्तम्, तत्र हि अकारविशिष्टस्यैव यङो लुगिति सर्वसंमतत्वेन स्थानिवत्त्वाऽभावादिति चेत्। मैवम्। एवंतर्हि आद्र्धधातुकस्य धात्ववयवलोपनिमित्तत्वाऽभावेन यङ्लुगन्ते `न धातुलोपे' इति निषेधस्य प्रसक्तेरभावात्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः धातोरेतौ स्तः । The affixes “ण्वुल्” and “तृच्” may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.

उदाहरणम् – करोतीति कारकः/कर्ता derived from √कृ (डुकृञ् करणे ८. १०).

कृ + ण्वुल् 3-1-133
= कृ + वु 1-3-3, 1-3-7, 1-3-9

Example continued under 7-1-1