TBD.
इष्ठनिमनिचीयसुनित्येतेषु परतः तृशब्दस्य लोपो भवति। आसुतिं करिष्ठः। विजयिष्ठः। वहिष्ठः। दोहीयसी धेनुः। सर्वस्य तृशब्दस्य लोपार्थं वचनम्। अन्त्यस्य हि टेः 6-4-155 इत्येव सिद्धः। लुगित्येतदत्र न अनुवर्तते, तथा हि सति न लुमताङ्गस्य 1-1-63 इति प्रतिषेधाद् गुणो न स्यात्। इमनिज्ग्रहणम् उत्तरार्थम्। इतरौ तु तुश्छन्दसि 5-3-59 इति भवतः।
TBD.
–
–
1504 तुरिष्। `टे'रित्यनेनान्त्यलोपे सिद्धेऽप्यारम्भसामथ्र्यात्सर्वस्य तृशब्दस्य लोपस्तदाह—करिष्ठ इति। दोहीयसीति इयमनयोरतिशयेन दोग्ध्री। `भस्याऽढे तद्धिते सिद्धश्च प्रत्ययविधौ'इति वचनात्तद्धिते कर्तव्ये प्रागेव पुंवद्भाव इति ङीपि निवृत्ते दोग्धृशब्दात्प्रत्ययः, ततस्तृचि निवृत्ते निमित्ताऽभावाद्धत्वजश्त्वयोरपि निवृत्तिः। अलौलिके विग्रहवाक्ये प्रागेव तयोरप्रवृत्तिः `अकृतव्यूह'परिभाषयेति तु तत्त्वम्। गुणस्तु प्रवर्तते। लुप्तेऽपि तृचि प्रत्ययलक्षणध्रौव्यात्, छान्दसमपि `तु'रिति सूत्रम्, `तुरिष्ठेमेयः,सु'इति च `णाविष्ठव'दित्यति देशेन लोकेऽपि कर्तारमाचष्टे कारयतीत्यादावुपयोक्ष्यमाणत्वादिहोपन्यस्तम्।
TBD.