Table of Contents

<<5-3-58 —- 5-3-60>>

5-3-59 तुश् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

तुः इति तृन्तृचोः सामान्येन ग्रहणम्। त्रन्ताच् छन्दसि विषये अजदी प्रत्ययौ भवतः। पूर्वेण गुणवचनादेव नियमे कृते छन्दसि प्रकृत्यन्तराण्यभ्यनुज्ञायन्ते, त्रन्तादप्यजादी भवत इति। आसुतिं करिष्ठः। दोहीयसी धेनुः। भस्याढे तद्धिते इति पुंवद्भावे कृते तुरिष्ठेमेयःसु 3-4-154 इति तृचो निवृत्तिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तुश्छन्दसि। `तृ' इत्यस्य `तु'रिति पञ्चम्येकवचनम्। `तृ' इत्यनेन तृन्तृचोः सामान्येन ग्रहणम्। प्रत्ययत्वात्तदन्तग्रहणम्। अजादी इत्यनुवर्तते। तदाह– तृन्तृजन्तादिति। अगुणवचनादपि तृप्रत्ययान्तात्प्राप्त्यर्थमारम्भः। एवंच पूर्वेण नियमेव व्यावर्तितयोः प्रतिप्रसवोऽयं नत्वपूर्वो विधिरिति सूचयितुं छान्दसमप्यत्रोपन्यस्तम्।

तत्त्वबोधिनी

1503 तुश्छन्दसि। पूर्वेण नियमेव व्यावर्तितयो प्रतिप्रसवोऽयम्, नत्वपूर्वो विधिः। तेन उपाधिसङ्करो न।

Satishji's सूत्र-सूचिः

TBD.