Table of Contents

<<1-4-7 —- 1-4-9>>

1-4-8 पतिः समास एव

प्रथमावृत्तिः

TBD.

काशिका

पतिशब्दस्य घिसंज्ञायां सिद्धायाम् अयं नियमः क्रियते, पतिशब्दः समासे एव घिसंज्ञओ भवति। प्रजापतिना। प्रजापतये। समासे इति किम्? पत्या। पत्ये। एवकार इश्टतो ऽवधारणार्थः। दृढमुष्टिना। दृढमुष्टये।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

185 घिसंज्ञः. पत्युः 2. पत्यौ. शेषं हरिवत्. समासे तु भूपतये. कतिशब्दो नित्यं बहुवचनान्तः..

बालमनोरमा

255 अथ पतिशब्दे विशेषं दर्शयति–पतिः समास एव। `शेषो घ्यसखी'त्यतो `घी'त्यनुवर्तते। तदाह पतिशब्द इति। पत्या। पत्ये इति। घित्वाऽभावान्नात्वगुणाऽभावे यणि रूपम्। पत्युरिति। `ख्यत्या'दित्युत्त्वम्। पत्याविति। घित्वाऽभावात् `अच्च घेः' इत्यस्य प्रवृत्तेरभावे `औत्' इति ङेरौत्त्वे यणि रूपम्। आरम्भसामथ्र्यादेव नियमार्थत्वे सिद्धे एवकारस्तु `पतिरेव समासे घि'रिति विपरीतनियमव्यावृत्त्यर्थः। तेन सुहरिणेत्यादि सिध्यति। समासे तु भूपतये इति। `भूपतिने'त्याद्युपलक्षणम्। `सीतायाः पतये नमः' इत्यादि त्वार्षम्। \र्\नथ कतिशब्दे विशेषं दर्शयति-कतिशब्दे नित्यं बहुवचनान्त इति। `किमः सङ्ख्यापरिमाणे' इत्यनेन किंशब्दाद्बहुत्वसङ्ख्यावच्छिन्नसङ्ख्येयविषयप्रश्न एव डतिरिति भाष्ये स्पष्टत्वादिति भावः।

तत्त्वबोधिनी

216 पतिः समास एव। एवकार इष्टतोऽवधारणार्थः। अन्यथा हि `समासे पतिरेवे'ति नियमः संभाव्येत्, ततश्च `महाकविने'त्यादिप्रयोगो न सिध्यते। `अनल्विधौ', `धात्वादे'रित्यादिज्ञापकानुसरणे तु प्रतिपत्तिगौरवं स्यादिति भावः। पत्येत्यादि। नन्वेवं `शेषो ध्यसखिपती'इत्येवोच्यतां, किमनेन `पतिः समास एवे'ति सूत्रेणेति चेन्न; समुदायस्य पतिरूपत्वाऽभावने बहुच्पूर्वकपतिशब्दस्यापि घिसंज्ञा स्यात्। ततश्च `सुसखिने'त्यादिवद्बहुपतिनेत्यादिवब्दहुपतिनेत्यादि प्रसज्येत, इष्यते तु `वहुपत्ये'त्यादि। नापि `सखिपती समास एवे' त्येवसूत्र्यतामिति शङ्क्यम्, `बहुपत्ये'त्यादिवद्बहुसख्येत्याद्यापत्तेः, इष्यते तु `बहुसखिने'त्यादि। अथ कथं `सीतायाःपतये नमः'इति, `नष्टे मृते प्रव्रजिते क्लीबे इः' इत्यौणादिक इप्रत्यये `णेरनिटी'ति णिलोपे च निष्पन्नोऽयं पतिशब्दः `पतिः समास एव' इत्यत्र न गृह्रते, लाक्षणिकत्वादिति। एतेन `कृष्णस्य सखिर्जुनः'इति भारतम्, `सखिना वानरेन्द्रेणे'ति रामायणं च व्याख्यातम्। कति शब्द इति। का सङ्ख्या येषां ते कति। `किमः सङ्ख्यापरिमाणे डति च' इति डतौ डित्त्वाट्टिलोपः।

Satishji's सूत्र-सूचिः

99) पतिः समास एव 1-4-8

वृत्ति: घि-सञ्ज्ञः । The word पति gets the designation घि only when it is part of a compound.

उदाहरणम् – पति + ङस् = पति + अस् 1-3-8 = पत्य् + अस् 6-1-77 = पत्युः 6-1-112, 8-2-66, 8-3-15

Example in समासः – भूपति + ङस् = भूपति + अस् 1-3-8 = भूपते + अस् 7-3-111 = भूपतेः 6-1-110, 8-2-66, 8-3-15