Table of Contents

<<6-1-111 —- 6-1-113>>

6-1-112 ख्यत्यात् परस्य

प्रथमावृत्तिः

TBD.

काशिका

ङसिङसोः इति वर्तते, उतिति च। ख्यत्यातिति खिशब्दखीशब्दयोः तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणं, ताभ्यां परस्य ङसिङसोः अत उकारादेशो भवति। सख्युरागच्छति। सख्युः स्वम्। पत्युरागच्छति। पत्युः स्वम्। खीशब्दस्य उदाहरणम् सह खेन वर्तते इति सखः, तम् इच्छति इति क्यच् सखीयति। सख यतेः क्विप् सखीः, तस्य ङसिङसोः सख्युः इति। तीशब्दस्य अपि लूनम् इच्छति लूनीयति, लूनीयतेः क्विपि लुप्ते, लून्युराग्च्छति। लून्युः स्वम्। निष्ठानत्वं पूर्वत्रासिद्धम् 8-2-1 इत्यसिद्धम्। विकृतनिर्देशादेव इह न भवति, अतिसखेरागच्छति, सेनापतेरागच्छति इति। सखिशब्दस्य केवलस्य घिसंज्ञा प्रतिषिध्यते, न तदन्तस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

183 खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः. सख्युः..

बालमनोरमा

253 ख्यत्यात्परस्य। `खिखी'-त्यनयोः, ति-ती'त्यनयोश्च कृतयणादेशयोः `ख्य' `त्य' इति निर्देशः। यकारादकार उच्चारणार्थः। `एङः पदान्ता'दित्यतोऽतीत्यनुवर्तते। तच्च परस्येति सामानाधिकरण्यात्षष्ठ\उfffद्न्ततया विपरिणम्यते। `ङसिङसोश्चे'त्यो `ङसिङसो'रित्यनुवर्तते। अवयवषष्ठ\उfffदेषा। ततश्च `ङसिङसोरवयवस्य अत' इति लभ्यते। `ऋत् उ'दित्यत, उदित्यनुवर्तते। `एकः पूर्वपरयोः' इति तु निवृत्तम्, `पर'ग्रहणसामथ्र्यात्। अन्यथा `ख्यत्या'दिति पञ्चमीनिर्देशादेव सिद्धे किं तेन ?। तदाह–खितिशब्दाभ्यामित्यादिना। सख्युरिति। सख्यस् इति स्थिते यकारादकारस्य उकारे रुत्वविसर्गौ।

तत्त्वबोधिनी

214 ख्यत्यात्। पञ्चमीनिर्देशादेव`परस्ये'ति लब्धे`परस्ये'ति ग्रहणमेकः पूर्वपरयोरिति नवृत्तमिह तु नाधिक्रियते इहि ध्वननार्थम्। ख्यश्च त्यश्चेति समाहारद्वन्द्वे ख्यत्यं, तत्र खिखीशब्दयोः कृतयणादेशयोरनुकरणं `ख्य'इति। एवं तितीशब्दयोस्त्येति। उभयत्राप्यकार उच्चाणार्थौ न तु मुख्यापत्यादिशब्दैकदेशानुकरणमिदं, `सख्युर्यः'`पत्युर्नः,'`सङ्ख्यायाः संवत्सरसङ्ख्यस्य च', `आपत्यस्य चे' त्यादिनिर्देशादित्यभिप्रेत्याहखितिशब्दाभ्यामित्यादि। एवं च यत्र यण्प्रवृत्तिः तत्रैवोत्त्वं न त्वतिसखेरित्यादौ। न चैवं यणा निर्देशस्योक्तप्रयोजनत्वाद्भस्वान्तयोरेव ग्रहणं स्यान्न तु दीर्घन्तयोरिति शङ्क्यम्। निर्देशस्य ह्यस्वदीर्घसाधारणत्वाच्छास्त्रस्य बहुविषयत्वसंभवे तत्सङ्कोचस्याऽन्याय्यत्वाच्चेति भावः।

Satishji's सूत्र-सूचिः

97) ख्यत्यात्परस्य 6-1-112

वृत्ति: ‘खि-ति’शब्दाभ्यां ‘खी-ती’शब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिँ-ङसोरत उः । The अकारः of ङसिँ and ङस् gets उकारः as a substitute when preceded by the term खि, ति, खी, or ती on which the यण् substitution has taken place.

गीतासु उदाहरणम् – श्लोकः bg11-44

सखि + ङस् = सखि + अस् 1-3-8 = सख्य् अस् 6-1-77 = सख्युः 6-1-112, 8-2-66, 8-3-15