Table of Contents

<<1-4-4 —- 1-4-6>>

1-4-5 वामि

प्रथमावृत्तिः

वा (-), आमि (7/1)| अनु. - नेयङुवङ्स्थानावस्त्री, यू स्त्राख्यौ नदी॥
हिन्दी – इयङ् -उवङ् स्थानी, स्त्री की आख्यावाले जो ईकारान्त ऊकारान्त शब्द, उनकी [आमि] आम् परे रहते [वा] विकल्प से नदी संज्ञा नहीं होती है, स्त्री शब्द को छोडकर।

काशिका

पूर्वेण नित्ये प्रतिषेधे प्राप्त आमि विकल्पः क्रियते । इयङुवङ्स्थानौ यू आमि परतो वा नदीसंज्ञौ न भवतः। श्रियाम्, श्रीणाम्। भ्रुवाम्, भ्रूणाम्। अस्त्री इत्येव, स्त्रिणाम्।

Ashtadhyayi (C.S.Vasu)

Feminine words ending ई and ऊ, though admitting इयङ् and उवङ् substitutes, are optionally termed नदी, when the affix आम् (Gen Pl.) follows, but not so the word स्त्री, which is always नदी.

लघु

231 इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री. श्रीणाम्, श्रियाम्. श्रियि, श्रियाम्.. धेनुर्मतिवत्..

बालमनोरमा

302 वाऽऽमि। `यूस्त्र्याख्यौ नदी'त्यनुवर्तते। `नेयङुवङ्स्थानावस्त्री'ति नञ्वर्जनमनुवर्तते। वा आमीति च्छेदः। अमि नदीकार्याऽभावात्। तदाह– इयङुवङ्स्थानावित्यादिना। श्रीणामिति। नदीत्वपक्षे `ह्यस्वनद्यापः' इति नुट्। श्रियामिति। नदीत्वाऽभावे तु इयङेव। श्रियोः श्रीषु। प्रधीशब्दस्य त्विति। प्रध्यायतीत्यर्थे `ध्यायतेः संप्रसारणं चे'ति क्विपि यकारस्य संप्रसारणे इकारे `संप्रसारणाच्चे'ति पूर्वरूपे `हलः' इति दीर्घे निष्पन्नस्य प्रधीशब्दस्य वृत्तिकारहरदत्तादिमते लक्ष्मीवद्रूपाणि। तत्र `एरनेकाचः' इति यणा इयङो बाधितत्वेन इयङ्स्थानत्वाऽभावान्नेयङुवङ्स्थानौ' इति नदीत्वनिषेधाऽभावा `द्यू स्त्र्याख्यौ' इति नित्यनदीत्वे सति `अम्बार्थे'त्यादिनदीकार्यप्रवृत्तेरिति भावः। तत्र अमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा यणेवेति विशेषः। ननु प्रध्यायतेः क्विपि निष्पन्नस्य प्रधीशब्दस्य प्रकर्षेण ध्यातृत्वप्रवृत्तिनिमित्तकस्य लिङ्गत्रयसाधारणत्वान्नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वाऽभावात्कथं नदीकार्याणीत्यत आह–पदान्तरं विनापीति। पदान्तरसमभिव्याहाराऽभावेऽपि यः शब्दः स्त्रीरूपार्थबोधकः सः नित्यस्त्रीलिङ्ग इति विवक्षितः। अत एव ब्राआहृण्यामाधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये `स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्ग' इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात्। अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम्। इदं तु प्रधीशब्दस्य आध्यै इति रूपमास्थितं भाष्ये। `स्त्रियामेव यो वर्तते स एव नित्यस्त्रीलिङ्गः' इत्यभ्युपगमे तु तदसङ्गतिः स्पष्टैव, आधीशब्दस्य क्रियाशब्दतया त्रिलिङ्गत्वात्। अतः पदान्तरं विनापि स्त्रियां वर्तमानत्वमेव नित्यस्त्रीत्वम्। इदं तु प्रधीशब्दस्य संभवत्येव, प्रकर्षेण ध्यातृत्वं निमित्तीकृत्य स्त्रियां वृत्तिसम्भवात्। परन्तु प्रधीरित्युक्ते पुंसः स्त्रियाश्च प्रतीतिप्रसक्तावन्यतरव्यवच्छेदाय `ब्राआहृणः' `ब्राआहृणी'त्यादिपदान्तरसमभिव्याहारापेक्षा। नैतावतास्य पदान्तरसमभिव्याहाराऽभावे स्त्रियां वृत्तिरपैति। अतः प्रधीशब्दस्य नित्यस्त्रीलिङ्गत्वान्नदीकार्यं निर्बाधमिति भावः। लिङ्गान्तरेति। `स्त्रीलिङ्गान्यलिङ्गानभिधायकत्वमेव नित्यस्त्रीत्व'मिति कैयटमतम्। `स्त्रीविषायावेव यौ यू तयोरेव नदीसंज्ञे'ति `यू स्त्र्याख्यौ' इत्यत्र भाष्यादिति तदाशयः। उदाह्मतप्रधीशब्दस्य त्रिलिङ्गतया नित्यस्त्रीत्वाऽभावात्पुंसीव स्त्रियामपि अनदीत्वादिति भावः। प्रकृष्टेति। प्रकृष्टा धीरिति विग्रहे प्रादिसमासे प्रधीशब्दस्य मतद्वयरीत्यापि नित्यस्त्रीलिङ्गत्वाल्लक्ष्मीवद्रूमित्यर्थः। अमि शसि चेति। प्रध्यायतीति, प्रकृष्टा धीरिति च विग्रहे प्रधीशब्दादमि शसि च पूर्वरूपं पूर्वसवर्णदीर्घं च बाधित्वा `एरनेकाचः' इति यणित्येतावान्विशेषो लक्ष्मीशब्दापेक्षयेत्यर्थः। कैयटमते ब्राआहृण्याम् `आध्यै' इति भाष्यप्रयोगस्तु बहुव्रीह्रभिप्रायेण नेयः। अत एव भाष्यात् `नद्यृतश्च' इति कप् नेत्याहुः। सुष्ठि धीर्स्या इति। सुष्ठुधीर्यस्या इति, सुष्ठु ध्यायतीति उभयविधविग्रहेऽपि पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वमिति वृत्तिकारादिमते सुधीशब्दस्य नित्यस्त्रीलिङ्गत्वेन `नेयङुवङ्स्थानौ' इति नदीत्वनिषेधा `न्ङिति ह्यस्वश्चे'ति `वामी'ति च श्रीशब्दवद्रूपाणि प्रत्येतव्यानि। `न भूसुधियो'रिति यण्निषेधे इयङ एव प्रवृत्तेरिति भावः। मतान्तरे तु पुंवदिति। `लिङ्गाऽन्तरनभिधाकत्वं नित्यस्त्रीत्व'मिति कैयटमते तु त्रिलिङ्गतया नदीत्वाऽभावात्पुंवदेव रूपमित्यर्थः। ननु सुधीशब्दे बहुव्रीहिप्रवृत्तेः प्राक् धीशब्दस्य नित्यस्त्रीलिङ्गत्वात् `प्रथमलिङ्गग्रहणं चे'ति नदीत्वं दुर्वारमिति चेत्, सत्यम्-यस्य वृत्तेः प्राक् नदीत्वं दृष्टं तस्योपसर्जनत्वेऽपि नदीत्वमतिदिश्यते। इह च वृत्तेः प्राक् धीशब्दस्य केवलस्य एकाच्त्वाद्यणभावे इयङयोग्यतया `नेयङुवङ्स्थानौ' इति नदीत्वनिषेधाद्वृत्तावपि न तदतिदेश इत्यास्तां तावत्। सुष्ठु धीरिति विग्रहे तु श्रीवदेवेति। मतद्वयेपि नित्यस्त्रीलिङ्गत्वादिति भावः। ग्रामणीः पुंवदिति। `स्त्रिया'मिति शेषः। ननु ग्रामं नयति नियमयतीति ग्रामणीशब्दस्य प्रधीशब्दवत्पदान्तरं विनापि स्त्रियां वर्तमानत्वान्नित्यस्त्रीलिङ्गत्वान्नदीकार्यसत्त्वात्पुंवदिति कथमित्यत आह– ग्रहनयनस्येति। ग्रामनयनस्य लोके उत्सर्गतः=सामान्यतः पुंधर्मतया=पुरुषकर्तव्यतया ब्राआहृणीत्यादिपदान्तरसमभिव्याहारं विना स्त्रीलिङ्गाप्रतीतेः वृत्तिकारादिमतेऽपि नित्यस्त्रीलिङ्गत्वाऽभावान्नदीत्वं नेत्यर्थः। एवमिति खलपवकनकटप्रवणादिक्रियाणामपि पुरुषकर्तव्यत्वमौत्सर्गिकं सामान्यतः सिद्धम्। अतः खलपूः कटप्ररित्यादिशब्दानामपि स्त्रियां वृत्तिकारादिमतेऽपि नित्यस्त्रीत्वं न। अतः पुंवदेव रूपमित्यर्थः। इति ईदन्ताः। अथ उदन्ताः। धेनुर्मतिवदिति। उकारस्य ओकारो गुणोऽवादेश इत्यादिविशेषस्तु सुगम इति भावः।

तत्त्वबोधिनी

265 वामि। `यू स्त्र्याख्यौ नदी' `नेयहुवङ्स्थानावस्त्री'त्यनुवर्तनादाह— इयङुवङ्स्थानावित्यादिना। यद्यपि `ने ति प्रकृतो निषेधोऽनेन विकल्प्यते तथापि निषेधविकल्पे विधिविकल्प एव फलतीति स एव सूत्रार्थ उचित इत्याशयेनाह—वा नदीसंज्ञौ स्त इति। `ङिति ह्यस्वश्चे'ति सूत्रेऽप्येवमेव। प्रधीशब्दस्य त्विति। `एरनेकाच'इचि यणा इयङो बाधनात् `नेयङुवङ्स्थाना'विति निषेधोऽत्र न प्रवर्तते। यत्र त्वपवादेनेयङुवङौ बाध्यते तत्र न निषेध इत्याशयेन व्याचष्टे—लक्ष्मीवद्रूपमिति। `अमि शसि च विशेषं 'इत्यनुपदमेव वक्ष्यति। पुंवद्रूपमिति। अयं च मतभेदः `प्रकृष्टा धीर्यस्याः'`प्रकर्षेण ध्यायती'ति वा विग्रहे बोध्यः। लक्ष्मीवदिति। `मतद्वयेऽपी'ति शेषः। सुष्ठु धीर्यस्या इति। नन्वस्मिन्विग्रहे कैयटमते सुधीशब्दस्य नित्यस्त्रीत्वाऽभावेऽपि धीशब्दस्य नित्यस्त्रीत्वा `त्प्रथमलिङ्गग्रहणं चे'ति सुधीशब्दः श्रीवदेव भवति, नतु पुंवदिति चेदत्राहुः—- `नेयङुवङ्स्थानावस्त्री'ति धीशब्दे नदीसंज्ञानिषेधात्सुधीशब्दे `प्रथमलिङ्गग्रहणं चे'त्यस्याऽप्रवृत्तिः, तथा `वृत्तिमते'इति ग्रन्थः स्वरसत सङ्गच्छते इति। मतान्तर इति। `लिङ्गान्तरानभिधायकत्वं त'दिति कैयटमते इत्यर्थः। श्रीवदेवेति। बुद्धिवाचकधीशब्दस्य नित्यस्त्रीत्वान्मतद्वयेऽपि श्रीवदेवेत्यर्थः।\त्(264) स्त्रियां च।7।1।96। `तृज्वत्क्रोष्टु'रिति वर्तते। तद्वदेवात्रापि रूपाऽतिदेशः। `स्त्रिया'मित्यर्थग्रहणं, तदाह—स्त्रीवाची क्रोष्टुशब्द इत्यादि। एवं च पञ्चमिः क्रोष्ट्रीबिः क्रीतै रथैः पञ्चक्रो,?टृभी रथैरित्यत्रापि तृ?ज्वद्भावः सिध्यति। ये तु`स्त्रिया'मिति स्त्रीप्रत्यये इति व्याचक्षते, ङीषर्थं च क्रोष्टुशब्दं गौरादुषु पठन्ति तेषामिह तृजद्भावे न सिध्येत्। `तेन क्रीत'मिति ठको`ऽध्यर्धपूर्वे'ति लुका लुप्तत्वाल्लुक्तद्धितलुकीति ङीषो लुकि स्त्रीप्रत्ययपरत्वाष?भावात्।

Satishji's सूत्र-सूचिः

139) वाऽऽमि 1-4-5

वृत्ति: इयँङुवँङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। The vowels long ई and long ऊ that are always feminine and which get the इयँङ् and उवँङ् replacements (respectively), get the नदी designation optionally when followed by the आम् affix. But this rule is not applicable to the word स्त्री.

उदाहरणम् – श्री + आम्, भ्रू + आम् = get नदी designation optionally.

When नदी designation is taken:

श्री + आम् = श्री + नाम् 7-1-54, 1-3-2, 1-3-3, 1-1-46 = श्रीणाम् 8-4-2

भ्रू + आम् = भ्रू + नाम् 7-1-54, 1-3-2, 1-3-3, 1-1-46 = भ्रूणाम् 8-4-2

When नदी designation in not taken:

श्री + आम् = श्रियँङ् + आम् 6-4-77 = श्रियाम् 1-3-2, 1-3-3

भ्रू + आम् = भ्रुवँङ् + आम् 6-4-77 = भ्रुवाम् 1-3-2, 1-3-3