Table of Contents

<<7-1-53 —- 7-1-55>>

7-1-54 ह्रस्वनद्यापो नुट्

प्रथमावृत्तिः

TBD.

काशिका

ह्रस्वान्तात् नद्यन्ताताबन्ताच् च उत्तरस्य आमः नुडागमो भवति। ह्रस्वान्तात् तावत् – वृक्षाणाम्। प्लक्षाणाम्। अग्नीनाम्। वायूनाम्। कर्तॄणाम्। नद्यन्तात् – कुमारीणाम्। किशोरीणाम्। गौरीणाम्। शार्ङ्गरवीणाम्। लक्ष्मीणाम्। ब्रह्मबन्धूनाम्। वीरबन्धूनाम्। आबन्तात् – खट्वानाम्। मालानाम्। बहुराजानाम्। कारीषगन्ध्यानाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

148 ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः..

बालमनोरमा

206 तदाह–ह्यस्वान्तादित्यादिना `आम्' अत्र षष्ठीबहुवचनमेव, नतु `ङेरा'मित्यादिविहितमिति भाष्ये स्पष्टम्। नुटि टकार इत्। उकार उच्चारणार्थः। टित्त्वादाद्यवयवः।

तत्त्वबोधिनी

173 ह्यस्वनद्यापो। `अङ्गस्ये'त्यनुवर्तते। तच्च पञ्चन्यन्तेन सामानाधिकरण्यादङ्गादिति विपरिणमय्य ह्यस्वादिभिर्विशेष्यते, विशेषणेन तदन्तविधिरित्याशयेनाह-ह्यस्वान्तादिति। एतेन `ह्यस्वनद्यापः-' इति पञ्चमी न तु षष्ठीति स्फोरितम्। ज्ञापकं त्वत्र `नामी'ति। नहि प्रकृत्यागमत्वे अङ्गसंज्ञानिमित्तं नाम् सम्भवति। एवं चानया पञ्चम्याऽनन्यार्थया `तस्मादित्युत्तरस्ये'ति परिभाषोपस्थित्या `आमि सर्वनाम्नः सुट्' इत्यतोऽनुवृत्तमामीति सप्तम्यन्तं `डः सि धु'डित्यत्रेव षष्ठ\उfffदा विपरिणम्यते, `अमी'ति सप्तम्याः `त्रेस्त्रयः' इत्यत्र चरितार्थत्वादित्यभिप्रेत्याह-आमो नुडागमः स्यादिति। अत्र नव्याः-`नुट्' इति योगं विभज्य `अङ्गात्परस्यामो नुट्' इत्युत्सर्गविधि कृत्वा `नद्यापः' इत्यंशेन `दीर्घात्परस्यामो नुट् चेद्भवति तर्हि नद्याप एव' इति नियमविधिं व्याख्याय ह्यस्वग्रहणं प्रत्याख्येयम्। न चैवं `लिहां' `दुहा'मित्यादावतिप्रसङ्गैति वाच्यम्। `हलन्ताच्चेद्भवति तर्हि षट्चतुभ्र्य एवे'ति नियमाभ्युपगमात्। `ध्वस्वनडुहां' `कतिपयचतुरां' `यजिक्रुञ्चा' `झलाम्' इत्यादिनिर्देशाच्च। तस्माद्ध्रस्वग्रहणप्रत्याख्याने न कोऽपि द#ओष इत्याहुः। अत्र वदन्ति–`नु'डिति पृथग्योगे कृते सति ङेरामि कृते परमप्याटं बाधित्वाऽन्तरङ्गत्वादामो नुट् स्यात्। तथा च-`परत्वादाटा नुड्बाध्यते'-इति वक्ष्यमाणग्रन्थेन, `आटि कृते सकृद्गतिन्यायान्नुड् ने'ति भाष्यग्रन्थेन च विरोधः स्यात्। यद्यपि `नियमसूत्राणां विधिमुखेन प्रवृत्ति'रिति पक्षे ङेरामि कृते तस्य `नद्यापः' इत्यनेनैव नुडागमे प्रसज्यमाने `आण्नद्याः' इत्यनेन स बाध्यत इति `परत्वादाटा नुड् बाध्यत' इत्यादिग्रन्थः सङ्गच्छते, तथापि `नियमसूत्राणां निषेधमुखेन प्रवृत्ति'रिति पक्षे परमपि आटं बाधित्वा अन्तरङ्गत्वान्नुट् स्यादेव। किंच `नद्यापः' इत्यत्र `नद्यापः परस्यामो नुडेव स्यान्नान्यत्' इत्यर्थः स्यात्। तथा च गौर्यां रमायां सर्वासां सर्वस्यामिति न सिध्येत्। सुडामस्य पुंसि, आट्- याट्-स्याडागमानां तु ङिदन्तरे चरितार्थत्वात्। अपि च गौर्यामित्यादौ ङेरामि कृते नुटं बाधित्वा प्राप्तमाटं बाधितुं नदीग्रहणम्। एवं रमायां सर्वासां सर्वस्यामित्यादौ प्राप्तं याटं सुटं स्याटं च बाधितुमाब्ग्रहणमिति `नद्यापः' एतद्विध्यर्थमेव स्यान्न नियमार्थम्। ततश्च वि\उfffदापां वातप्रम्यामित्यादौ नुड् दुर्वार एव। `नद्यां मतुप्' `भाषायां सदवसश्रुवः' `सर्वसां प्रायदर्शनम्' `तदस्यां प्रहरणम्' इत्यादिनिर्देशाञ्शरणीकृत्य विध्यर्थत्वापादनस्य, नुडेवेति प्रागुक्तनियमस्य [च] निवारणे तु प्रतिपत्तिगौरवम्। अपि च- `आकारान्तादीकारान्तादूकारान्ताच्चेद्भवति तर्हि नद्याप एव' इति नियमस्यापि संभवाद्वि\उfffदापां वातप्रम्यां खलप्वामित्यादौ नुडागमाऽभावेऽपि गवामित्यादौ नुट् स्यात्। न च छन्दसि `गोः पादान्ते' इत्यारम्भाल्लोके गोशह्दात्परस्यामो नुड् न भवेदिति वाच्यम्, `पादान्ते गोशब्दात्परस्यामो नुट् चेच्छन्दस्येवे'ति नियमेन लोके पादान्ते `गोना'मिति प्रयोगस्याभावेऽप्यपादान्ते तस्याऽनिवर्त्त्यत्वापत्तेः। रायां ग्लावां नावामित्यादौ दुर्निवारत्वाच्च। यदि तु `दीर्घात्परस्य आमो नुट्चे'दित्यादिनियमे `गोः पादान्ते' इति सूत्रं विध्यर्थं भवेत्। `आकारान्तादिभ्यः परस्यामो नुट् चे'दित्यादिनियमे तु नियमार्थं स्यात्। तत्र विधिनियमयोर्विधिरेव ज्यायानिति न्यायाननुसन्धानेन `दीर्घान्तात्परस्यामो नुट् चे'दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येव `दीर्घान्तात्परस्यामो नुट् चे'दित्यादिनियम एव स्वीक्रियत इत्युच्यते तदापि पुनः प्रतिपत्तिगौरवमस्त्येव, तस्माद्ध्रस्वग्रहणप्रत्याख्यानस्यातिक्लेशसाध्यत्वाद्यथाश्रुतमेव रमणीयमिति।

Satishji's सूत्र-सूचिः

66) ह्रस्वनद्यापो नुँट् 7-1-54

वृत्ति: ह्रस्वान्ताद् नद्यान्ताद् आबन्ताच्चाङ्गात् परस्यामो नुँडागम: । The affix “आम्” takes the augment “नुँट्” when it follows a प्रातिपदिकम् which either ends in a short vowel or has the नदी-सञ्ज्ञा or ends in the feminine affix “आप्”।

Please see example under the next rule.