TBD.
ऊ इति त्रयाणाम् अयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः। ह्रस्वदीर्घप्लुतः इति द्वन्द्वैकवद् भावे पुंल्लिङ्गनिर्देशः। उ ऊ ऊ3 इत्येवं कालो अज् यथाक्रमं ह्रस्वदीर्घप्लुतः इत्येवं संज्ञो भवति। उकालो ह्रस्वः दधि। मधु। ऊकालो दीर्घः कुमारी। गौरी। ऊ3कालः प्लुतः देवदत्त3 अत्र न्वसि। कालग्रहणं परिमाणार्थम्। दीर्घप्लुतयोः ह्रस्वसंज्ञा मा भूत्। आलूय, प्रलूय, ह्रस्वस्य पिति कृति तुक् 6-1-71 इति तुङ् न भवति। अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम्। प्रतक्ष्य, प्ररक्ष्य, ह्रस्वाश्रयस् तुङ् मा भूत्। तितौच्छात्रम्, दीर्घात् 6-1-75, पदान्ताद् वा 6-1-76 इति विभाषा तुङ् मा भूत्। ह्रस्वदीर्घप्लुतप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य 1-2-47। अकृत्सर्वधातुकयोर् दीर्घः 7-4-25। वाक्यस्य टेः प्लुत उदात्तः 8-2-82।
TBD.
5 उश्च ऊश्च ऊ3श्च वः; वां कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्. स प्रत्येकमुदात्तादि भेदेन त्रिधा.
<< 1-3-2 – 1-2-29 >>
४ उश्च ऊश्च ऊ३श्च वः । वां काल इव कालो यस्य सोऽचक्रमाद्घ्रस्वदीर्घप्लुतसंज्ञः स्यात् । स प्रत्येकमुदात्तादिभेदेन त्रिधा ।
6 तदेवमणादिसंज्ञासु सिद्धासु अचो ह्यस्वादिसंज्ञां विधत्ते–ऊकालोऽजिति। `ह्यस्वदीर्घप्लुत' इति समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्। इतरेतरयोगद्वन्द्वो वा। तथा सत्येकवचनमार्षम्। उ ऊ ऊ3 इति त्रयाणां एकमात्रद्विमात्रत्रिमात्राणां द्वन्द्वसमासे सति सवर्णदीर्घेण ऊ इति प्रश्लिष्टनिर्देशः। तेषां कालः ऊकालः। कालशब्दो मात्रापर्यायः कालसदृशे लाक्षणिकः। ऊकालः कालो यस्येति विग्रहः। `सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वा चोत्तरपदलोपः' इति द्विपदो बहुव्रीहिः। ऊकालशब्दे पूर्वपदे उत्तरखण्डस्य कालशब्दस्य लोप इत्यभिप्रेत्य फलितमाह–वां काल इवेत्यादिना। `वः' इति ऊशब्दस्य प्रथमाबहुवचनम्। वामिति षष्टीबहुवचनम्। वां काल इव कालो यस्येति फलितार्थकथनम्। उक्तरीत्या द्विपद एव बहुव्रीहिः। क्रमादिति। तत्सूत्रमुपन्यसितुमुचितम्। नच उ ऊ ऊ3 इत्युवर्णानां कथं ह्यस्वदीर्घप्लुतसंज्ञाः, तेषामूकालसदृशकालत्वाऽभावात्, सादृश्यस्य भेदनिबन्धनत्वादिति वाच्यम्। ऊ शब्दस्यात्र एकमात्रद्विमात्रत्रिमात्रकुक्?कुटरुतानुकरणत्वात्। स इति। सः=ह्यस्वः दीर्घः प्लुतश्च अच्, प्रत्येकमुदात्तादिभेदेन=उदात्तत्वेनानुदात्तत्वेन स्वरितत्वेन च धर्मविशेषण, त्रिधा = त्रिभिः प्रकारैर्वर्तत इत्यर्थः।
8 ऊकालोऽज्झ्रस्वदीर्घप्लुत इति। समाहारद्वन्द्वे सौत्रं पुंस्त्वम्। `ऊ' इति त्रयाणां प्रश्लेषेण निर्देश इत्याह-उश्च ऊश्च ऊश्चेति। वः। वामिति। त्रयाणां सवर्णदीर्घे कृते जसि परतो यणि-वः। आमि तु वाम्। वां काल इव कालो यस्येति। फलितार्थकथनमिदम्। विग्रहस्तु वः कालो यस्येति बोध्यः। `ऊ' शब्देन स्वोच्चारणकालो लक्ष्यते। अच् किम् ?। संयोगस्य माभूत्, प्रतक्ष्य, प्ररक्ष्य। कषयोरेकमात्रत्वेन ह्यस्वसंज्ञायां `ह्यस्वस्य पिति कृति-' इति तुक् स्यात्। आ ये इति। `निपाता आद्युदात्ताः' इत्याकार उदात्तः। यच्छब्दस्तु `फिष' इत्यन्तोदात्तः। ततः परस्य जसः सुप्त्वादनुदात्तत्वम्, त्यदाद्यत्वे शीभावे आद्गुणे च सति `एकादेश उदात्तेन' इत्येकार उदात्तः।
TBD.