Table of Contents

<<1-2-28 —- 1-2-30>>

1-2-29 उच्चैरुदात्तः

प्रथमावृत्तिः

TBD.

काशिका

अचिति वर्तते। उदात्ताऽदिशब्दाः स्वरे वर्णधर्मे लोकवेदयोः प्रसिद्धा एव। ते इह तद्गुणे ऽचि परिभाष्यन्ते। उच्चैरुपलभ्यमानो यो ऽच् स उदात्तसंज्ञो भवति। उच्चैः इति च श्रुतिप्रकर्षो न गृह्यते, उच्चैर् भाषते, उचैः पठति इति। किं तर्हि? स्थानकृतम् उच्चत्वं संज्ञिनो विशेषणम्। ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते। तत्र यः समाने स्थाने ऊर्ध्वभगनिष्पन्नो ऽच् स उदात्तसंज्ञो भवति। यस्मिन्नुचार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता क्ण्ठविवरस्य। ये। ते। के। उदात्तप्रदेशाःआद्युदात्तश्च 3-1-3 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

6

सिद्धान्तकौमुदी

<< 1-2-271-2-30 >>
५ ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात् । आ ये ।

बालमनोरमा

7 उदात्तसंज्ञामाह–उच्चैरुदात्तः। नादधर्मविशेष उच्चैस्त्वं नेह विवक्षितम्, उपांशूच्चार्यमाणे अव्याप्तेः। किन्तूच्चैश्शब्दोऽधिकरणशक्ति प्रधान ऊध्र्वभागे इत्यर्थे वर्तते। ऊध्र्वावयवस्य चावयव्यपेक्षायां तालुकण्ठादिवर्णाभिव्यक्तिस्थानानामित्यर्थाल्लभ्यते। उकालोऽजिति सूत्रादजित्यनुवर्तते, तदेतदाह-ताल्वादिष्वित्यादिना। सभागेष्विति। ताल्वादीनां सावयवत्वकथनमूध्र्वभागे इत्यस्योपपादनार्थम्, तेषाम् अखण्डत्वे `ऊध्र्वभागे' इत्यनुपपत्तेः। उदात्तमुदाहरति-आ ये इति। `आये मित्रावरुणा' इत्यृचि आकार एकारश्च उदात्त इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.