TBD.
परिभाषा इयं स्थानिनियमार्था ह्रस्वदीर्घप्लुतः स्वसंज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः। वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य 1-2-47, रैअतिरि। नौअतिनु। गोउपगु। अचः इति किम्? सुवाग् ब्रह्मणकुलम्। अकृत्सार्वधातुकयोर् दीर्घः 7-4-25 चीयते। श्रूयते। अचः इति किम्? भिद्यते। धिद्य्ते। वाक्यस्य टेः प्लुत उदात्तः 7-2-82 देवदत्त3। यज्ञदत्त3। अचः इति किम्? अग्निचि3त्। सोमसु3त्। तकारस्य मा भूत्। स्वसंज्ञया वधाने नियमः। अचिति वर्तते। इह मा भूत्। द्यौः पन्थाः। सः द्यौभ्याम्। द्युभिः। अत्र नियमो न अस्ति।
TBD.
–
37 अचश्च। अच इत्यपि षष्ठ\उfffद्न्तशब्दः स्वरूपपरः, पूर्वसूत्रे इक इतिवत्। ऊकालोऽजित्यतः `अच्' `ह्यस्वदीर्घप्लुत' इत्यनुवर्तते। `इति यत्र विधीयते' इत्यध्याहार्यम्। फलितमाह–ह्यस्वेत्यादिना। `दिव उत्' इत्यादौ तु नेदं प्रवर्तते, ह्यस्वादिशब्दानामश्रवणात्। `ह्यस्वो नपुंसके प्रातिपादिकस्ये'त्याद्युदाहरणम्। श्रीपम्। नेह–सुपात् ब्राआहृणकुलम्।
31 अतश्च। ह्यस्वदीर्घेत्यादि। एतच्च `ऊकालोऽज्झ्रस्वदीर्घप्लुतः' इति सूत्रादझ्यस्वदीर्घप्लुत इत्यनुवर्त्त्य `ह्यस्वो दीर्घः प्लुत इति योऽ'जिति योजनया लभ्यते। ह्यस्वेत्यादि किम् ?, `दिव उत्' द्युभ्याम्। `अष्टन आ विभक्तौ' अष्टौ। `अष्टाभ्य औ'शित्यत्र कृतात्त्वनिर्देशाज्ज्ञापकाज्जश्शसोर्विषये प्रवत्र्तमानस्य `अष्टन' इत्यात्त्वस्याऽच्स्थानिकत्वे सति नैतत्सिद्धयेदिति दिक्। षष्ठ\उfffद्न्तं पदमिति। तच्च सति संभवे सामानाधिकरण्येनैव संबध्यते न वैयधिकरण्येन। तेन `ह्यस्वो नपुंसके' इत्यजन्तप्रातिपदिकस्यैव ह्यस्वः। श्रीपम्। नेह सुवाग्रब्राआहृणकुलम्। `शमामष्टानां दीर्घः-' इत्यत्र तु सामानाधिकरण्याऽसंभवत्-शमादीनामच' इति संबध्यते , तेन `शाम्यती'त्यादि सिद्धम्। `वाक्यस्य टेः प्लुतः-' इत्यत्र सामानाधिकरण्यसंभवेऽपि टेग्र्रहणसामथ्र्याट्टरेवयवस्याचः प्लुत इति व्याख्यायते। अन्यथा `अलोऽन्त्यस्य' `अतश्चे'ति परिभाषाभ्यामेहि कृष्णेत्यादिवाक्यान्त्यस्याऽचः प्लुतसिद्धौ किमनेन टेग्र्रहणेन ?। तेन `आयुष्मानेधीन्द्रवर्मन्' इत्यादि सिध्यतीति दिक्।
TBD.