Table of Contents

<<1-2-46 —- 1-2-48>>

1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य

प्रथमावृत्तिः

TBD.

काशिका

नपुंसकलिङ्गे ऽर्थे यत् प्रातिपदिकं वर्तते तस्य ह्रस्वो भवति आदेशः अलो ऽन्यस्य अचः। अतिरि कुलम्। अतिनु कुलम्। नपुंसके इति किम्? ग्रामणीः। सेनानीः। प्रातिपदिकस्य इति किम्? काण्डे तिष्ठतः। कुड्ये तिष्ठतः। प्रातिपदिकग्रहणसामर्थ्यतेकाऽदेशः पूर्वस्य अन्तवन्न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

316 अथ आदन्ताः। श्रियं पातीति श्रीपाशब्दो वि\उfffदापाशब्दवद्विजन्तः क्विबन्तो वा। तस्य न पुंसकत्वे ह्यस्वविधानमाह–ह्यस्वो नपुंसके। ह्यस्वश्रुत्योपस्तितेनाऽच इत्यनेन प्रातिपदिकस्य विशेषणात्तदन्तविधिरित्याह–क्लीब इत्यादिना। नच कुले इति द्विवचने एकादेशस्य पूर्वान्तत्वेन ग्रहणादजन्तप्रातिपदिकत्वाद्ध्रस्वः स्यादिति वाच्यम्, अर्थवदधातुरित्यतः प्रातिपदिकग्रहणानुवृत्तौ पुनः प्रातिपदिकग्रहणेनाऽन्तवद्भावतः प्रातिपदिकत्वे ह्यस्वाऽभावबोधनात्। ज्ञानवदिति। ह्यस्वविधानाद्दीर्घान्तत्वप्रयुक्तो न कश्चिद्विशेष इति भावः। `जश्शसोः शिः'। श्रीपाणीति रूपम्। भिन्नपदस्थत्वेऽपि `एकाजुत्तरपदे णः' इति णत्वप्रवृत्तेः। श्रीपेण। इनादेशे गुणे तस्य पूर्वान्तत्वादुत्तरपदस्य एकाच्त्वात्स्यादेव णत्वम्। श्रीपायेति। श्रीपाशब्दस्य `ह्यस्वो नपुंसके' इति ह्यस्वत्वे ङेर्यादेशे `सुपि चे'ति दीर्घे रूपम्। संनिपातपरिभाषा तु कष्टायेति निर्देशान्न प्रवत्र्तत इति प्रागुक्तम्। नन्वत्र ह्यस्वत्वे कृतेऽपि `पे'त्यस्य एकदेशविकृतन्यायेन धातुत्वानपायाद्दीर्घे कृते आकारान्तत्वाच्च `आतो धातोः' इत्याल्लोपः स्यात्, यादेशस्य स्वतो यकारादितया स्थानिवत्त्वेन स्वादिप्रत्ययतया च तस्मिन् परे भत्वस्यापि सत्त्वादित्यत आह-अत्र संनिपातेति। ननूपजीव्यविघातकं प्रति उपजीवकं निमित्तं न भवतीति संनिपातपरिभाषया लभ्यते। प्रकृतेच अदन्तमुपजीव्य प्रवृत्तस्य यादेशस्य आल्लोपं प्रति कथं न निमित्तत्वम्। यादेशस्य आकारमुपजीव्य प्रवृत्तत्वाऽभावेन आकारलोपं प्रति निमित्तत्वे बाधकाऽभावादिति चेत्, मैवम्- यादेशस्तावद्ध्रस्वमवर्णमुपजीव्य प्रवर्तते, तद्विधावत इत्यनुवृत्तेः। ततश्च ह्यस्वत्वमवर्णत्वं च समुदितं यादेशस्योपजीव्यम्। तत्र कष्टायेति निर्देशात्संनिपातपरिभाषां बाधित्वा कृते।ञपि दीर्घे ह्यस्वत्वांश एव निवृत्तः। अवर्णत्वांशस्त्वनुवृत्त एव। तस्याप्याल्लोपेन निवृत्तौ उपजीव्यविघातः स्यादेवेति भवेदेव संनिपातपरिभाषाविरोधः। अतो न भवत्याल्लोप इति कौस्तुभे समाहितम् `इको गुणवृद्धी' इत्यत्र। वस्तुतस्त्वातो धातोरित्यत्र लक्षणप्रतिपदोक्त परिभाषया प्रतिपदोक्त एवाकारान्तदातुर्गृह्रते। इह तु पाधातोह्र्यस्वत्वे तु पुनर्दीर्घे सति अवगम्यमानं पास्वरूपं लाक्षणिकमेवेति न तस्यात्र ग्रहणमित्यास्तां तावत्। इत्यादन्ताः।

तत्त्वबोधिनी

278 ह्यस्वो नपुंसके। इह ह्यस्वश्रुत्योपस्थितेनाऽच इत्यनेन प्रातिपदिकविशेषमात्तदन्तविधिरित्यह–अजन्तस्येति। प्रातिपदिकस्याच इति वैयधिकरण्येन व्याख्यायां तु `सुवाग्ब्राआहृआणकुल'मित्यत्रातिप्रसङ्गः स्यात्। एतच्च `अचश्चे'ति सूत्र एवास्माभिः स्पष्टीकृतम्। प्रातिपदिकस्येति किम्?। काण्डे। कुड\उfffदे। ज्ञानवादिति। श्रीपाणी'त्यादौ `एकाजुत्तरपदे'इति णत्वं तु विशेषः। श्रीपेणे' त्यत्रापीनादेशेन सहाद्गुणे कृते एकादेशस्य पूर्वान्तत्वेन ग्रहणात् `अचः परस्मि'न्निति सूत्रे पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासपक्षाश्रयेण स्थानिवत्त्वाद्वा एकाजुत्तरपदमस्तीति स्यादेव णत्वम्। संनिपातेति। अवर्णमाश्रित्य कृतो यादेशः कथमवर्णलोपे निमित्तं स्यात्। न च `सुपि चे'ति दीर्घार्थं संनिपातपरिभाषाया अनित्यात्वाभ्युपगम आवश्यक एवेति वाच्यम्, `कष्टाये'ति निर्देशेन दीर्घविधौ अनित्यात्वाभ्युपगमेऽप्यवर्णलोपे कार्ये तदनभ्युपगमात्। कृतेऽपि दीर्घे ह्यस्वव्यक्त्यपायेऽप्यत्वजातेरनपायादिति दिक्। एतेन `श्रीपशब्दान्ङयि श्रीत्ये'ति केषाञ्चिद्व्याख्यानं परास्तम्।

Satishji's सूत्र-सूचिः

TBD.